पूर्वमाचरितं घोरं पतिकामनया तपः। तव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः
यदा त्वां निहतं दुष्टं नहुषेण महात्मना। निििििशितैर्वज्रसङ्काशैर्बाणैराशीविषोपमैः।९१ रणे निपतितं पाप मुक्तकेशं सलोहितम् । गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम्
एवं सुनियमं कृत्वा गंगातीरमनुत्तमम्। संस्थिता हुंडनाशाय निश्चला शिवनंदिनी
वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान्। क्रोधेन दीप्ता विबुधेशपुत्री गङ्गातटे दुश्चरमाचरत्तपः
"कुञ्जल उवाच- एवमुक्ता महाभाग शिवस्य तनया गता । गङ्गांभसि ततः स्नात्वा स्वपुरे काञ्चनाह्वये
तपश्चचार तन्वङ्गी हुण्डस्य वधहेतवे । अशोकसुन्दरी बाला सत्येन च समन्विता
हुण्डोपि दुःखितोभूतः शापदग्धेन चेतसा। चिंतयामास सन्तप्त अतीव वचनानलैः
समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् । समाचष्ट स वृत्तान्तं तस्याः शापोद्भवं महत्
शप्तोस्म्यशोकसुंदर्या शिवस्यापि सुकन्यया। नहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि
नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणी। यथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु
कम्पन उवाच- अपहृत्य प्रियां तस्य आयोश्चापि समानय । अनेनापि प्रकारेण तव शत्रुर्न जायते
नो वा प्रपातयस्व त्वं गर्भं तस्याः प्रभीषणैः । अनेनापि प्रकारेण तव शत्रुर्न जायते
जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः । अपहृत्य समानीय जहि त्वं पापचेतनम्
एवं समंत्र्य तेनापि कंपनेन स दानवः । अभूत्स उद्यमोपेतो नहुषस्य प्रणाशने
'विष्णुरुवाच- एलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः। सार्वभौमः स धर्मात्मा सत्यव्रतपरायणः
इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः। दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च
एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः। पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम्
पुत्रं न विंदते राजा तेन दुःखी व्यजायत। चिंतयामास धर्मात्मा कथं मे जायते सुतः
इति चिन्तां समापेदे आयुश्च पृथिवीपतिः। पुत्रार्थं परमं यत्नमकरोत्सुसमाहितः
अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिः। क्रीडमानः स्त्रिया सार्द्धं मदिरारुणलोचनः
वारुण्या मत्त धर्मात्मा स्त्रीवृन्दैश्च समावृतः। अङ्के युवतिमाधाय सर्वयोषिद्वरां शुभाम्
गायते नृत्यते विप्रः सुरां च पिबते भृशम्। विना यज्ञोपवीतेन महायोगीश्वरोत्तमः
पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः । चंदनागुरुदिग्धांगो राजमानो मुनीश्वरः
तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् । प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः
अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम्। आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः
एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम। निश्चलं शान्तिमापन्नं मानसं भक्तितत्परम्
समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप। ब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा
सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हि । वरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम्
"आयुरुवाच- भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः। सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः
अत्रिवंशे महाभाग गोविंदः परमेश्वरः। ब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः