'श्रीदेव्युवाच- नैव चालयितुं शक्तो भवान्मां दानवेश्वरः। मनसापि न वै धार्यं मम मोहं समागतम्
भवादृशैर्महापापैर्देवैर्वा दानवाधमैः। दुष्प्राप्याहं न संदेहो मा वदस्व पुनः पुनः
स्कन्दानुजा सा तपसाभियुक्ता जाज्वल्यमाना महता रुषा च। संहर्तुकामा परि दानवं तं कालस्य जिह्वेव यथा स्फुरन्ती
पुनरुवाच सा देवी तमेवं दानवाधमम् । उग्रं कर्म कृतं पाप चात्मनाशनहेतवे
आत्मवञ्शस्य नाशाय स्वजनस्यास्य वै त्वया। दीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः
यथाऽशुभः कूटपक्षी सर्वशोकैः समुद्गतः। गृहं तु विशते यस्य तस्य नाशं प्रयच्छति
स्वजनस्य च सर्वस्य सधनस्य कुलस्य च। स द्विजो नाशमिच्छेत विशत्येव यदा गृहम्
तथा तेहं गृहं प्राप्ता तव नाशं समीहती । पुत्राणां धनधान्यस्य तव वंशस्य साम्प्रतम्
जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तव। सर्वं ते नाशयित्वाहं यास्यामि च न संशयः
यथा त्वयाहमानीता चरन्ती परमं तपः । पतिकामा प्रवाञ्च्छन्ती नहुषं चायुनन्दनम्
तथा त्वां मम भर्ता च नाशयिष्यति दानव । मन्निमित्तउपायोऽयं दृष्टो देवेन वै पुरा
सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः। प्रत्यक्षं दृश्यते लोके न विन्दन्ति कुबुद्धयः
येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकम्। स एव भुंजते तत्र तस्मादेव न संशयः
कर्मणोस्य फलं भुङ्क्ष्व स्वकीयस्य महीतले। यास्यसे निरयस्थानं परदाराभिमर्शनात्
सुतीक्ष्णं हि सुधारं तु सुखड्गं च विघट्टति। अङ्गुल्यग्रेण कोपाय तथा मां विद्धि साम्प्रतम्
सिंहस्य सम्मुखं गत्वा क्रुद्धस्य गर्जितस्य च। को लुनाति मुखात्केशान्साहसाकारसंयुतः।८४ सत्याचारां दमोपेतां नियतां तपसि स्थिताम्। निधनं चेच्छते यो वै स वै मां भोक्तुमिच्छति
समणिं कृष्णसर्पस्य जीवमानस्य साम्प्रतम् । गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः
भवांस्तु प्रेषितो मूढ कालेन कालमोहितः । तदा ते ईदृशी जाता कुमतिः किं नपश्यसि
ऋते तु आयुपुत्रेण समालोकयते हि कः। अन्यो हि निधनं याति ममरूपावलोकनात्
एवमाभाषयित्वा तं गङ्गातीरं गता सती । सशोका दुःखसंविग्ना नियतानि यमान्विता
पूर्वमाचरितं घोरं पतिकामनया तपः। तव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः
यदा त्वां निहतं दुष्टं नहुषेण महात्मना। निििििशितैर्वज्रसङ्काशैर्बाणैराशीविषोपमैः।९१ रणे निपतितं पाप मुक्तकेशं सलोहितम् । गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम्
एवं सुनियमं कृत्वा गंगातीरमनुत्तमम्। संस्थिता हुंडनाशाय निश्चला शिवनंदिनी
वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान्। क्रोधेन दीप्ता विबुधेशपुत्री गङ्गातटे दुश्चरमाचरत्तपः
"कुञ्जल उवाच- एवमुक्ता महाभाग शिवस्य तनया गता । गङ्गांभसि ततः स्नात्वा स्वपुरे काञ्चनाह्वये
तपश्चचार तन्वङ्गी हुण्डस्य वधहेतवे । अशोकसुन्दरी बाला सत्येन च समन्विता
हुण्डोपि दुःखितोभूतः शापदग्धेन चेतसा। चिंतयामास सन्तप्त अतीव वचनानलैः
समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् । समाचष्ट स वृत्तान्तं तस्याः शापोद्भवं महत्
शप्तोस्म्यशोकसुंदर्या शिवस्यापि सुकन्यया। नहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि
नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणी। यथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु