दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि । इति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः
पूजनं कुरुते नित्यं वांछितं फलमाप्नुयात् । धर्मार्थकाममोक्षांश्च लभते मानवो भुवि
धूपं दीपं च नैवेद्यं तथा वै चंदनादिकम् । येऽर्पयंति हि देवेशि लोकनाथे महेश्वरि । न दुःखं तु भवेत्तेषां सत्यं सत्यं वरानने
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्रसंहितायामुउत्तरखंडे धारेश्वरमाहात्म्यं नाम चतुष्पंचाशदधिकशततमोऽध्यायः
महादेव उवाच। दुग्धेश्वरसमीपे तु तीर्थं चातीवपावनम् । रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि
यत्र कृत्वा तपः पूर्वं मातुर्वचनतो मुनिः । उत्पादयामास कृत्यां वडवानलसम्मिताम्
पितुरानृण्यमन्विच्छन्दधीचस्य महात्मनः । तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति
साभ्रमत्यास्तटे गुप्तं पिप्पलादं सुरेश्वरम् । तत्र स्नात्वा तु भो देवि मुक्तिभागी भवेन्नरः
आरोपणं पिप्पलानां कर्त्तव्यं विधिपूर्वकम् । कृते सति महादेवि मुच्यते कर्मबंधनात्
पार्वत्युउवाच। किमर्थं सा तु कृत्या वै उत्पन्ना तां निबोधय । तया वै कृत्यया पूर्वं किं कृतं वद मे प्रभो
येन पुत्रेण सा नीता पितुरानृण्यकारणात्
महादेव उवाच। दाधीचो ऋषिवर्योऽसौ ह्यागतस्तपकारणात् । अत्र तेन महत्तप्तमृषिणा परमात्मना
तत्र कोलासुरो नाम विघ्नार्थं वै समागतः । तेन विघ्नं बहुतरं कृतं वै नात्र संशयः
तद्दृष्टं तु सुपुत्रेण कहोडेन च धीमता । कृत्या ह्युत्पादिता तत्र हननार्थं सुरेश्वरि
तया वै निहतो दैत्यः कोलो नाम महासुरः । तस्मात्तीर्थं महज्जातं कलौ गुप्तं तु पार्वति
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे पिप्पलादतीर्थं नाम सप्तपंचाशदधिकशततमोऽध्यायः
महादेव उवाच। भूतालयं ततो गच्छेत्तीर्थं पापहरं पदम् । भूतालयो वटो यत्र यत्र प्राची तु चंदना
भूतालये नरः स्नात्वा कृष्णाष्टम्यामुपोषितः । यस्तु कृष्णतिलान्दद्यान्न स प्रेतोऽभिजायते
पितॄनुद्दिश्य यो दद्यादुदकुंभं तिलैः सह । पूर्वजान्प्रेतभावात्स मोचयेन्नात्र संशयः
यस्य नाम्ना नरः स्नाति प्रेतत्वात्स विमुच्यते । चतुर्दश्यामथाष्टम्यां प्रभाते विमलोदके
तीर्थे भूतालये स्नात्वा दृष्ट्वा भूतालयं वटम् । भूतेश्वरप्रसादेन भूतेभ्यो न लभेद्भयम्
इति श्रीभूतेश्वरतीर्थम् । अतस्तीर्थात्परं तीर्थं घटेश्वरमिति स्मृतम् । यत्र स्नात्वा तु तं दृष्ट्वा मुक्तिभागी भवेद्ध्रुवम्
यत्र साभ्रमती तीर्थं घटो वै परमो महान् । दृष्ट्वा चैव महादेवं मुच्यते नात्र संशयः
तत्र गत्वा विशेषेण प्लक्षपूजां करोति यः । मनसाभीप्सितान्कामाँल्लभते मानवो भुवि
इति घटेश्वरतीर्थम् । ततो गच्छेन्नरो भक्त्या वैद्यनाथेति विश्रुतम् । तत्र स्नात्वा नरस्तीर्थे शिवपूजनतत्परः
पितॄन्संतर्प्य विधिना सर्वयज्ञफलं लभेत् । विजयो देवसंभूतः सर्वपापक्षयंकरः । यं दृष्ट्वा विविधान्कामान्प्राप्नुयुस्ते नराः सदा 6.165.
महादेव उवाच। ततोगच्छेन्महादेवि वार्त्रघ्न्या गिरिकन्यया । शक्रश्चैव तया साध्व्या संगमं यत्र लब्धवान्
तत्र स्नानं प्रकुर्वंति नरा नियतमानसाः । दशानामश्वमेधानां यत्फलं स्नानकृल्लभेत्
तत्र यः कुरुते श्राद्धं पिंडान्वै तिलचूर्णजान् । पुनाति पुरुषो वंशान्सप्तसप्तपरावरान्
संपूज्य विधिवत्स्नात्वा संगमे गणनायकम् । न विघ्नैरभिभूयेत लक्ष्म्या नैव विहीयते