त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् । किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितम्
यद्यस्यदिष्टमेवास्ति शुभं वाप्यशुभं दृढम् । पूर्वकर्मानुसारेण तत्तस्य परिजायते
देवानां ब्राह्मणानां च वदने यत्सुभाषितम्। निःसरेद्यदि सत्यं तदन्यथा नैव जायते
मद्भाग्यादेवमाज्ञातं नहुषस्यापि तस्य च। समायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च
एवं ज्ञात्वा शमं गच्छ त्यज भ्रान्तिं मनःस्थिताम्। नैव शक्तो भवान्दैत्य मे मनश्चालितुं ध्रुवम्
पतिव्रता दृढा चित्ते स को मे चालितुं क्षमः। महाशापेन धक्ष्यामि इतो गच्छ महासुर
एवमाकर्ण्य तद्वाक्यं हुण्डो वै दानवो बली । मनसा चिन्तयामास कथं भार्या भवेदियम्
विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः । ततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहाय ताम्। अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम्
दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवः । मायया कन्यका रूपो बभूव मम नन्दन
सा कन्यापि वरारोहा मायारूपागमत्ततः। हास्यलीला समायुक्ता यत्रास्ते भवनन्दिनी
उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति । कासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने
किमर्थं क्रियते बाले कामशोषणकं तपः। तन्ममाचक्ष्व सुभगे किन्निमित्तं सुदुष्करम्
तन्निशम्य शुभं वाक्यं दानवेनापि भाषितम् । मायारूपेण छन्नेन साभिलाषेण सत्वरम्
आत्मसृष्टि सुवृत्तान्तं प्रवृत्तं तु यथा पुरा । तपसः कारणं सर्वं समाचष्ट सुदुःखिता
उपप्लवं तु तस्यापि दानवस्य दुरात्मनः। मायारूपं न जानाति सौहृदात्कथितं तया
"हुण्ड उवाच- पतिव्रतासि हे देवि साधुव्रतपरायणा। साधुशीलसमाचारा साधुचारा महासती
अहं पतिव्रता भद्रे पतिव्रतपरायणा। तपश्चरामि सुभगे भर्तुरर्थे महासती
मम भर्ता हतस्तेन हुंडेनापि दुरात्मना। तस्य नाशाय वै घोरं तपस्यामि महत्तपः
एहि मे स्वाश्रमे पुण्ये गंगातीरे वसाम्यहम्। अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः
हुंडेन सखिभावेन मोहिता शिवनंदिनी। समाकृष्टा सुवेगेन महामोहेन मोहिता
आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनम्। मेरोस्तु शिखरे पुत्र वैडूर्याख्यं पुरोत्तमम्
अस्ति सर्वगुणोपेतं कांचनाख्यं महाशिवम्। तुंगप्रासादसंबाधैः कलशैर्दंडचामरैः
नानवृक्षसमोपेतैर्वनैर्नीलैर्घनोपमैः। वापीकूपतडागैश्च नदीभिस्तु जलाशयैः
शोभमानं महारत्नैः प्राकारैर्हेमसंयतैः। सर्वकामसमृद्धार्थं सम्पूर्णं दानवस्य हि
ददृशे सा पुरं रम्यमशोकसुन्दरी तदा। कस्य देवस्य संस्थानं कथयस्व सखे मम
सोवाच दानवेन्द्रस्य दृष्टपूर्वस्य वै त्वया। तस्य स्थानं महाभागे सोऽहं दानवपुङ्गवः
मया त्वं तु समानीता मायया वरवर्णिनि । तामाभाष्य गृहं नीता शातकौम्भं सुशोभनम्
नानावेश्मैः समाजुष्टं कैलासशिखरोपमम्। निवेश्य सुंदरीं तत्र दोलायां कामपीडितः
पुनः स्वरूपी दैत्येन्द्रः कामबाणप्रपीडितः। करसम्पुटमाबध्य उवाच वचनं तदा
यं यं त्वं वाञ्छसे भद्रे तं तं दद्मि न संशयः। भज मां त्वं विशालाक्षिभजन्तं कामपीडितम्