दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः । देवेषु मर्त्यलोकेषु तपसा यशसा कुले
अन्येषु नागलोकेषु धनभोगैर्वरानने । दर्शनात्ते विशालाक्षि हतः कन्दर्पमार्गणैः
शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव । भव स्ववल्लभा भार्या मम प्राणसमा प्रिया
अशोकसुन्दर्युवाच- श्रूयतामभिधास्यामि सर्वसंबंधकारणम्। भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि
भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः । संसारे लोकमार्गोयं शृणु हुण्ड यथाविधि
अस्त्येव कारणं चात्र यथा तेन भवाम्यहम् । सुभार्या दैत्यराजेन्द्र शृणुष्व यतमानसः
वृक्षराजादहं जाता यदा काले महामते । शम्भोर्भावं सुसङ्गृह्य पार्वत्या कल्पिता ह्यहम्
देवस्यानुमते देव्या सृष्टो भर्ता ममैव हि । सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति
जिष्णुर्जिष्णुसमो वीर्ये तेजसा पावकोपमः। सर्वज्ञः सत्यसन्धश्च त्यागे वैश्रवणोपमः
यज्वा दानपतिः सोपि रूपेण मन्मथोपमः । नहुषोनाम धर्मात्मा गुणशील महानिधिः
देव्या देवेन मे दत्तःख्यातोभर्ताभविष्यति । तस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुन्दरम्
इन्द्रोपेन्द्र समं लोके ययातिं जनवल्लभम्। लप्स्याम्यहं रणे धीरं तस्माच्छम्भोः प्रसादतः
अहं पतिव्रता वीर परभार्या विशेषतः। अतस्त्वं सर्वथा हुण्ड त्यज भ्रान्तिमितोव्रज
प्रहस्यैव वचो ब्रूते अशोकसुन्दरीं प्रति। 'हुण्ड उवाच- नैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि
नहुषोनाम धर्मात्मा सोमवंशे भविष्यति। भवती वयसा श्रेष्ठा कनिष्ठो न स युज्यते
कनिष्ठा स्त्री प्रशस्ता तु पुरुषो न प्रशस्यते । कदा स पुरुषो भद्रे तव भर्ता भविष्यति
तारुण्यं यौवनं चापि नाशमेवं प्रयास्यति। यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः
पुरुषाणां वल्लभत्वं प्रयान्ति वरवर्णिनि । तारुण्यं हि महामूलं युवतीनां वरानने
तस्या धारेण भुंजंति भोगान्कामान्मनोनुगान् । कदा सोभ्येष्यते भद्रे आयोः पुत्रः शृणुष्व मे
यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति। गर्भत्वं च शिशुत्वं च कौमारं च निशामय
कदासौ यौवनोपेतस्तव योग्यो भविष्यति । यौवनस्य प्रभावेन पिबस्व मधुमाधवीम्
मया सह विशालाक्षि रमस्व त्वं सुखेन वै। हुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः
उवाच दानवेन्द्रं तं साध्वसेन समन्विता। अष्टाविञ्शतिके प्राप्ते द्वापराख्ये युगे तदा
शेषावतारो धर्मात्मा वसुदेवसुतो बलः। रेवतस्य सुतां दिव्यां भार्यां स च करिष्यति
सापि जाता महाभाग कृताख्ये हि युगोत्तमे । युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि
बलस्य सा प्रिया जाता रेवती प्राणसम्मिता। भविष्यद्वापरे प्राप्त इह सा तु भविष्यति
मायावती पुरा जाता गन्धर्वतनया वरा । अपहृत्य नियम्यैव शम्बरो दानवोत्तमः
तस्या भर्ता समाख्यातो माधवस्य सुतो बली। प्रद्युम्नो नाम वीरेशो यादवेश्वरनन्दनः
तस्मिन्युगे भविष्येत भाव्यं दृष्टं पुरातनैः। व्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः
एवं हि दृश्यते दैत्य वाक्यं देव्या तदोदितम्। मां प्रति हि जगद्धात्र्या पुत्र्या हिमवतस्तदा