रत्नज्योतिः समाकारा नखाः पादाग्रसंभवाः। यथोद्दिष्टं च शास्त्रेषु तथा चांगेषु दृश्यते
सर्वाभरणशोभांगी हारकंकणनूपुरा। मेखलाकटिसूत्रेण कांचीनादेन राजते
नीलेन पट्टवस्त्रेण परां शोभां गता शुभा । कंचुकेनापि दिव्येन सुरक्तेन गुणान्विता
पार्वती कल्पिताद्भावाद्गुणं प्राप्ता महोदयम्। कल्पद्रुमान्मुदं लेभे शंकरं वाक्यमब्रवीत्
यथोक्तं तु त्वया देव तथा दृष्टो मया द्रुमः । यादृशं कल्प्यते भावस्तादृशं परिदृश्यते
सूत उवाच- अथ सा चारुसर्वांगी तयोः पार्श्वं समेत्य च । पादांबुजं ननामाथ सा भक्त्या भवयोस्तदा
उवाच वचनं स्निग्धं हृद्यं हारि च सा तदा। कस्मात्सृष्टा त्वया नाथ मातर्वद स्वकारणम्
श्रीदेव्युवाच- वृक्षस्य कौतुकाद्भावान्मया वै प्रत्ययः कृतः । सद्यः प्राप्तं फलं भद्रे भवती रूपसंपदा
अशोकसुंदरी नाम्ना लोके ख्यातिं प्रयास्यसि । सर्वसौभाग्यसंपन्ना मम पुत्री न संशयः
सोमवंशेषु विख्यातो यथा देवः पुरंदरः । नहुषोनाम राजेंद्रस्तव नाथो भविष्यति
एवं दत्वा वरं तस्यै जगाम गिरिजा गिरिम् । कैलासं शंकरेणापि मुदा परमया युता
†********************† इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्व्यधिकशततमोऽध्यायः
'कुञ्जल उवाच- अशोकसुन्दरी जाता सर्वयोषिद्वरा तदा। रेमे सुनन्दने पुण्ये सर्वकामगुणान्विते
सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनी । सर्वान्भोगान्प्रभुञ्जाना गीतनृत्यविचक्षणा
विप्रचित्तेः सुतो हुण्डो रौद्रस्तीव्रश्च सर्वदा । स्वेच्छाचारो महाकामी नन्दनं प्रविवेश ह
अशोकसुन्दरीं दृष्ट्वा सर्वालङ्कारसंयुताम् । तस्यास्तु दर्शनाद्दैत्यो विद्धः कामस्य मार्गणैः
तामुवाच महाकायः का त्वं कस्यासि वा शुभे । कस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम्
'अशोकसुन्दर्युवाच- शिवस्यापि सुपुण्यस्य सुताहं शृणु साम्प्रतम् । स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे
बालभावेन सम्प्राप्ता लीलया नन्दनं वनम् । भवान्कोहि किमर्थं तु मामेवं परिपृच्छति
हुण्ड उवाच- विप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः। हुण्डेति नाम्ना विख्यातो बलवीर्यमदोद्धतः
दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः । देवेषु मर्त्यलोकेषु तपसा यशसा कुले
अन्येषु नागलोकेषु धनभोगैर्वरानने । दर्शनात्ते विशालाक्षि हतः कन्दर्पमार्गणैः
शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव । भव स्ववल्लभा भार्या मम प्राणसमा प्रिया
अशोकसुन्दर्युवाच- श्रूयतामभिधास्यामि सर्वसंबंधकारणम्। भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि
भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः । संसारे लोकमार्गोयं शृणु हुण्ड यथाविधि
अस्त्येव कारणं चात्र यथा तेन भवाम्यहम् । सुभार्या दैत्यराजेन्द्र शृणुष्व यतमानसः
वृक्षराजादहं जाता यदा काले महामते । शम्भोर्भावं सुसङ्गृह्य पार्वत्या कल्पिता ह्यहम्
देवस्यानुमते देव्या सृष्टो भर्ता ममैव हि । सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति
जिष्णुर्जिष्णुसमो वीर्ये तेजसा पावकोपमः। सर्वज्ञः सत्यसन्धश्च त्यागे वैश्रवणोपमः
यज्वा दानपतिः सोपि रूपेण मन्मथोपमः । नहुषोनाम धर्मात्मा गुणशील महानिधिः