आदित्यतेजः समतेजसां गणैः प्रभाति वै रश्मिभिर्जातरूपः। पुष्पैः फलैः कामगुणोपपन्नः कल्पद्रुमो नंदनकाननेपि
एवंविधं पादपराजमेव संवीक्ष्य देवी च शिवं बभाषे। अस्याभिधानं कथयस्व नाथ सर्वस्य पुण्यस्य नगस्य पुण्यम्
तेजस्विनां सूर्यवरः समंतात्स देव देवीं च शिवो बभाषे । शिव उवाच- अस्य प्रतिष्ठा महती शुभाख्या देवेषु मुख्यो मधुसूदनश्च
नदीषु मुख्या सुरनिम्नगापि विसृष्टिकर्त्तापि यथैव धाता । सुखावहानां च यथा सुचंद्रो भूतेषु मुख्या च यथैव पृथ्वी
नगेंद्रराजो हि यथा नगानां जलाशयेष्वेव यथा समुद्रः । महौषधीनामिव देवि चान्नं महीधराणां हिमवान्यथैव
विद्यासु मध्ये च यथात्मविद्या लोकेषु सर्वेषु यथा नरेंद्रः। तथैव मुख्यस्तरुराज एष सर्वातिथिर्देवपतेः प्रियोयम्
श्रीपार्वत्युवाच- गुणान्नु शंभो मम कीर्त्तयस्व वृक्षाधिपस्यास्य शुभान्सुपुण्यान् । आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्वं सुतरोर्हि तस्य
यं यं कल्पयंति सुपुण्यदेवा देवोपमा देववराश्च कांते । तं तं हि तेभ्यः प्रददाति वृक्षः कल्पद्रुमो नाम वरिष्ठ एषः
अस्माच्च सर्वे प्रभवंति पुण्या दुःप्राप्यमत्रैव तपोधिकास्ते। जीवाधिकं रत्नमयं सुदिव्यं देवास्तु भुंजंति महाप्रधानाः
शुश्राव देवी वचनं शिवस्य आश्चर्यभूतं मनसा विचिंत्य । तस्यानुमत्या परिकल्पितं च स्त्रीरत्नमेकं सुगुणं सुरूपम्
सर्वांगरूपां सगुणां सुरूपां तस्मात्सुवृक्षाद्गिरिजा प्रलेभे। विश्वस्य मोहाय यथोपविष्टा साहाय्यरूपा मकरध्वजस्य
क्रीडानिधानं सुखसिद्धिरूपं सर्वोपपन्ना कमलायताक्षी । पद्मानना पद्मकरा सुपद्मा चामीकरस्यापि यथा सुमूर्तिः
प्रभासु तद्वद्विमला सुतेजा लीला सुतेजाश्च सुकुंचितास्ते । प्रलंबकेशाः परिसूक्ष्मबद्धाः पुष्पैः सुगंधैः परिलेपिताश्च
प्रबद्धकुंता दृढकेशबंधैर्विभाति सा रूपवरेण बाला। सीमंतमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणाम्
सीमंतमूले तिलकं सुदेव्या यथोदितो दैत्यगुरुः सतेजाः । भालेषु पद्मे मृगनाभिपद्म समुत्थतेजः प्रकरैर्विभाति
सीमंतमूले तिलकस्य तेजः प्रकाशयेद्रूपश्रियं सुलोके । केशेषु मुक्ताफलके च भाले तस्याः सुशोभां विकरोति नित्यम्
यथा सुचंद्रः परिभाति भासा सा रम्यचेष्टेव विभाति तद्वत्। संपूर्णचंद्रोपि यथा विभाति ज्योत्स्नावितानेन हिमांशुजालः
तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च। हिमांशुरेवापि कलंकयुक्तः संक्षीयते नित्यकलाविहीनः
संपूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलंकम् । गंधं विकाशं कमले स्वकीयं ततः समालोक्य सुखं न लेभे
पद्मानना सर्वगुणोपपन्ना मदीयभावैःपरिनिर्मितेयम्। गंधं स्वकीयं तु विपश्य पद्मं तस्या मुखाद्वाति जगत्समीरः
लज्जाभियुक्तः सहसा बभूव जलं समाश्रित्य सदैव तिष्ठति । कतिमतिनियतबुद्ध्यासौ धियो वदंति सुमदननृपतेः कोशं समुद्र कलाभिः
सुवरदशनरत्नैर्हास्यलीलाभियुक्ता अरुणअधरबिंबंशोभमानस्तु आस्यः
सुभ्रूः सुनासिका तस्याः सुकर्णौ रत्नभूषितौ । हेमकांतिसमोपेतौ कपोलौ दीप्तिसंयुतौ
रेखात्रयं प्रशोभेत ग्रीवायां परिसंस्थितम् । सौभाग्यशीलशृंगारैस्तिस्रो रेखा इहैव हि
सुस्तनौ कठिनौ पीनौ वर्तुलाकारसन्निभौ । तस्याः कंदर्पकलशावभिषेकाय कल्पितौ
अंसावतीव शोभेते सुसमौ मानसान्वितौ। सुभुजौ वर्तुलौ श्लक्ष्णौ सुवर्णौ लक्षणान्वितौ
सुसमौ करपद्मौ तु पद्मवर्णौ सुशीतलौ । दिव्यलक्षणसंपन्नौ पद्मस्वस्तिकसंयुतौ
सरलाः पद्मसंयुक्ता अंगुल्यस्तु नखान्विताः। नखानि च सुतीक्ष्णानि जलबिंदुनिभानि च
पद्मगर्भप्रतीकाशो वर्णस्तदंगसंभवः । पद्मगंधा च सर्वांगे पद्मेव भाति भामिनी
सर्वलक्षणसंपन्ना नगकन्या सुशोभना। रक्तोत्पलनिभौ पादौ सुश्लक्ष्णौ चातिशोभनौ