दिव्यं रम्भावनाकीर्णं पुष्पवद्भिस्तु चम्पकैः । मल्लिकाभिः सुपुष्पाभिर्मालतीजालसंकुलम्
नित्यं पुष्पितशाखाभिः पाटलानां वनोत्तमैः। राजमानं महावृक्षैश्चंदनैश्चारुगंधिभिः
देवदारुवनैर्जुष्टं तुंगवृक्षैः समाकुलम्। सरलैर्नालिकेरैश्च तद्वत्पूगीफलद्रुमैः
खर्जूरपनसैर्दिव्यैः फलभारावनामितैः। परिमलोद्गारसंयुक्तैर्गुरुवृक्षसमाकुलम्
अग्नितेजः समाभासैः सप्तपर्णैः सुशोभितम् । राजवृक्षैः कदंबैश्च पुष्पशोभान्वितं सदा
जंबूनिंबमहावृक्षैर्मातुलिगैः समाकुलम् । नारंगैः सिंधुवारैश्च प्रियालैः शालतिंदुकैः
उदुंबरैः कपित्थैश्च जंबूपादपशोभितम् । लकुचैः पुष्पसौगंधैः स्फुटनागैः समाकुलम्
चूतैश्च फलराजाद्यैर्नीलैश्चैव घनोपमैः । नीलैः शालवनैर्दिव्यैर्जालानां तु वनैस्ततः
तमालैस्तु विशालैश्च सेवितं तपनोपमैः । शोभितं नंदनं पुण्यं शिवेन परिदर्शितम्
शोभितं च द्रुमैश्चान्यैः सर्वैर्नीलवनोपमैः । सर्वकामफलोपेतैः कल्याणफलदायकैः
कल्पद्रुमैर्महापुण्यैः शोभितं नंदनं वनम् । नानापक्षिनिनादैश्च संकुलं मधुरस्वरैः
कोकिलानां रुतैः पुण्यैरुद्घुष्टं मधुकारिभिः । मकरंदविलुब्धानां पक्षिणां रुतनादितम्
नानवृक्षैः समाकीर्णं नानामृगगणायुतम् । वृक्षेभ्यो विविधैः पुष्पैस्सौगंधैः पतितैर्भुवि
सा च भू राजते पुत्र पूजिते वसुगंधिभिः । तत्र वाप्यो महापुण्याः पद्मसौगंधनिर्मलाः
तोयैस्ताः पूरिताः पुत्र हंसकारंडसेविताः। तडागैः सागरप्रख्यैस्तोयसौगंधपूजितैः
नंदनं भाति सर्वत्र गणैरप्सरसां महत्। विमानैः कलशैः शुभ्रैर्हेमदंडैः सुशोभनैः
नंदनो वनराजस्तु प्रासादैस्तु सुधान्वितैः। यत्र तत्र प्रभात्येव किन्नराणां महागणैः
गंधर्वैरप्सरोभिश्च सुरूपाभिर्द्विजोत्तम । देवतानां विनोदैश्च मुनिवृंदैः सुयोगिभिः
सर्वत्र शुशुभे पुण्यसंस्थानं नंदनस्य च
एवं समालोक्य महानुभावो भवः सुदेव्यासहितो महात्मा। श्रीनंदनं पुण्यवतां निवासं सुखाकरं शांतिगुणोपपन्नम्
आदित्यतेजः समतेजसां गणैः प्रभाति वै रश्मिभिर्जातरूपः। पुष्पैः फलैः कामगुणोपपन्नः कल्पद्रुमो नंदनकाननेपि
एवंविधं पादपराजमेव संवीक्ष्य देवी च शिवं बभाषे। अस्याभिधानं कथयस्व नाथ सर्वस्य पुण्यस्य नगस्य पुण्यम्
तेजस्विनां सूर्यवरः समंतात्स देव देवीं च शिवो बभाषे । शिव उवाच- अस्य प्रतिष्ठा महती शुभाख्या देवेषु मुख्यो मधुसूदनश्च
नदीषु मुख्या सुरनिम्नगापि विसृष्टिकर्त्तापि यथैव धाता । सुखावहानां च यथा सुचंद्रो भूतेषु मुख्या च यथैव पृथ्वी
नगेंद्रराजो हि यथा नगानां जलाशयेष्वेव यथा समुद्रः । महौषधीनामिव देवि चान्नं महीधराणां हिमवान्यथैव
विद्यासु मध्ये च यथात्मविद्या लोकेषु सर्वेषु यथा नरेंद्रः। तथैव मुख्यस्तरुराज एष सर्वातिथिर्देवपतेः प्रियोयम्
श्रीपार्वत्युवाच- गुणान्नु शंभो मम कीर्त्तयस्व वृक्षाधिपस्यास्य शुभान्सुपुण्यान् । आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्वं सुतरोर्हि तस्य
यं यं कल्पयंति सुपुण्यदेवा देवोपमा देववराश्च कांते । तं तं हि तेभ्यः प्रददाति वृक्षः कल्पद्रुमो नाम वरिष्ठ एषः
अस्माच्च सर्वे प्रभवंति पुण्या दुःप्राप्यमत्रैव तपोधिकास्ते। जीवाधिकं रत्नमयं सुदिव्यं देवास्तु भुंजंति महाप्रधानाः
शुश्राव देवी वचनं शिवस्य आश्चर्यभूतं मनसा विचिंत्य । तस्यानुमत्या परिकल्पितं च स्त्रीरत्नमेकं सुगुणं सुरूपम्