श्रीमहादेवउवाच-★ एवमस्तु महादेवि नन्दनं देवसङ्कुलम् । दर्शयिष्यामि ते पुण्यं द्विजसिद्धनिषेवितम्
एवमाभाष्य तां देवीं तया सह गणैस्ततः । स गन्तुमुत्सुको देवो नन्दनं वनमेव तु
सर्वगं सुन्दरं दिव्यपृष्ठमाभरणैर्युतम्। घंटामालाभिसंयुक्तं किङ्किणीजालमालिनम्
चामरैः पट्टसूत्रैश्च मुक्तामालासुशोभितम्। हंसचंद्रप्रतीकाशं वृषभं चारुलक्षणम्
समारूढो महादेवो गणकोटिसमावृतः। नन्दिभृङ्गिमहाकालस्कन्दचण्डमनोहराः
वीरभद्रो गणेशश्च पुष्पदन्तो मणीश्वरः । अतिबलःसुबलो नाम मेघनादो घटावहः
घण्टाकर्णश्च कालिन्दः पुलिन्दो वीरबाहुकः। केशरी किंकरो नाम चण्डहासः प्रजापतिः
एते चान्ये च बहवः सनकाद्यास्तपोबलाः। गणैश्च कोटिसंख्यातैः सशिवः परिवारितः
नन्दनं वनमेवापि सेवितं देवकिन्नरैः। प्रविवेश महादेवो गणैर्देव्यासमन्वितः
दर्शयामास देवेशो गिरिजायै सुशोभनम् । नानापादपसम्पन्नं बहुपुष्पसमाकुलम्
दिव्यं रम्भावनाकीर्णं पुष्पवद्भिस्तु चम्पकैः । मल्लिकाभिः सुपुष्पाभिर्मालतीजालसंकुलम्
नित्यं पुष्पितशाखाभिः पाटलानां वनोत्तमैः। राजमानं महावृक्षैश्चंदनैश्चारुगंधिभिः
देवदारुवनैर्जुष्टं तुंगवृक्षैः समाकुलम्। सरलैर्नालिकेरैश्च तद्वत्पूगीफलद्रुमैः
खर्जूरपनसैर्दिव्यैः फलभारावनामितैः। परिमलोद्गारसंयुक्तैर्गुरुवृक्षसमाकुलम्
अग्नितेजः समाभासैः सप्तपर्णैः सुशोभितम् । राजवृक्षैः कदंबैश्च पुष्पशोभान्वितं सदा
जंबूनिंबमहावृक्षैर्मातुलिगैः समाकुलम् । नारंगैः सिंधुवारैश्च प्रियालैः शालतिंदुकैः
उदुंबरैः कपित्थैश्च जंबूपादपशोभितम् । लकुचैः पुष्पसौगंधैः स्फुटनागैः समाकुलम्
चूतैश्च फलराजाद्यैर्नीलैश्चैव घनोपमैः । नीलैः शालवनैर्दिव्यैर्जालानां तु वनैस्ततः
तमालैस्तु विशालैश्च सेवितं तपनोपमैः । शोभितं नंदनं पुण्यं शिवेन परिदर्शितम्
शोभितं च द्रुमैश्चान्यैः सर्वैर्नीलवनोपमैः । सर्वकामफलोपेतैः कल्याणफलदायकैः
कल्पद्रुमैर्महापुण्यैः शोभितं नंदनं वनम् । नानापक्षिनिनादैश्च संकुलं मधुरस्वरैः
कोकिलानां रुतैः पुण्यैरुद्घुष्टं मधुकारिभिः । मकरंदविलुब्धानां पक्षिणां रुतनादितम्
नानवृक्षैः समाकीर्णं नानामृगगणायुतम् । वृक्षेभ्यो विविधैः पुष्पैस्सौगंधैः पतितैर्भुवि
सा च भू राजते पुत्र पूजिते वसुगंधिभिः । तत्र वाप्यो महापुण्याः पद्मसौगंधनिर्मलाः
तोयैस्ताः पूरिताः पुत्र हंसकारंडसेविताः। तडागैः सागरप्रख्यैस्तोयसौगंधपूजितैः
नंदनं भाति सर्वत्र गणैरप्सरसां महत्। विमानैः कलशैः शुभ्रैर्हेमदंडैः सुशोभनैः
नंदनो वनराजस्तु प्रासादैस्तु सुधान्वितैः। यत्र तत्र प्रभात्येव किन्नराणां महागणैः
गंधर्वैरप्सरोभिश्च सुरूपाभिर्द्विजोत्तम । देवतानां विनोदैश्च मुनिवृंदैः सुयोगिभिः
सर्वत्र शुशुभे पुण्यसंस्थानं नंदनस्य च
एवं समालोक्य महानुभावो भवः सुदेव्यासहितो महात्मा। श्रीनंदनं पुण्यवतां निवासं सुखाकरं शांतिगुणोपपन्नम्