भागीरथ्याः प्रवाहस्तु तस्मात्स्थानाद्विनिर्गतः । कैलासशिखरं प्राप्य रत्नाख्यं चारुकंदरम्
वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः । हंसवृंदसमाकीर्णो जलपक्षि समाकुलः
नानावर्णविशेषाणि संति पद्मानि तत्र च । प्रवाहे निर्मले तात मुनिवृंदनिषेविते
अश्रुभ्यो यानि जातानि प्रभाते कमलानि तु । गंगोदकप्लुतान्येव सौरभाणि महांति च
प्रतरंति प्रवाहे तु निर्मले जलपूरिते । मध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते
सूत उवाच- रत्नाख्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः । देवदैत्यसुपूज्योपि तिष्ठते तात सर्वदा
तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः । जटाभारसमाक्रांतो निर्वासा दंडधारकः
निराधारो निराहारस्तपसातीव दुर्बलः । कृशांगोऽप्यस्थिसंघातस्त्वचामात्रेण वेष्टितः
भस्मोद्धूलितमात्राणि सर्वांगानि महात्मनः । शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च
शिवभक्तिसमासीनो दुराधारो महातपाः । अश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च
गंगातोयात्समानीय देवदेवं प्रपूजयेत् । रत्नेश्वरं महाभागो गीतनृत्यविशारदः
गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः । मठमागत्य धर्मात्मा रोदते सुस्वरैरपि
एतद्दृष्टं मया तात अपूर्वं वदतांवर । कथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणम्
सा का नारी महाभागा कस्मात्तात प्ररोदिति । कस्मात्स देवपुरुषो देवमर्चेन्महेश्वरम्
तन्मे त्वं विस्तराद्ब्रूहि सर्वसंदेहकारणम् । एवमुक्तो महाप्राज्ञः कुंजलोपि सुतेन हि
कपिंजलेन प्रोवाच विस्तराच्छृण्वतो मुनेः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे एकाधिकशततमोऽध्यायः
कुञ्जल उवाच- सर्वं वत्स प्रवक्ष्यामि यत्त्वयोक्तं ममाधुना। उभयोर्देवनं यत्तु यस्माज्जातं द्विजोत्तम
एकदा तु महादेवी पार्वती प्रमदोत्तमा। क्रीडमाना महात्मानमीश्वरं वाक्यमब्रवीत्
ममोरसि महादेव जातं महत्सु दोहदम्। दर्शयस्व ममाग्रे त्वं काननं काननोत्तमम्
श्रीमहादेवउवाच-★ एवमस्तु महादेवि नन्दनं देवसङ्कुलम् । दर्शयिष्यामि ते पुण्यं द्विजसिद्धनिषेवितम्
एवमाभाष्य तां देवीं तया सह गणैस्ततः । स गन्तुमुत्सुको देवो नन्दनं वनमेव तु
सर्वगं सुन्दरं दिव्यपृष्ठमाभरणैर्युतम्। घंटामालाभिसंयुक्तं किङ्किणीजालमालिनम्
चामरैः पट्टसूत्रैश्च मुक्तामालासुशोभितम्। हंसचंद्रप्रतीकाशं वृषभं चारुलक्षणम्
समारूढो महादेवो गणकोटिसमावृतः। नन्दिभृङ्गिमहाकालस्कन्दचण्डमनोहराः
वीरभद्रो गणेशश्च पुष्पदन्तो मणीश्वरः । अतिबलःसुबलो नाम मेघनादो घटावहः
घण्टाकर्णश्च कालिन्दः पुलिन्दो वीरबाहुकः। केशरी किंकरो नाम चण्डहासः प्रजापतिः
एते चान्ये च बहवः सनकाद्यास्तपोबलाः। गणैश्च कोटिसंख्यातैः सशिवः परिवारितः
नन्दनं वनमेवापि सेवितं देवकिन्नरैः। प्रविवेश महादेवो गणैर्देव्यासमन्वितः
दर्शयामास देवेशो गिरिजायै सुशोभनम् । नानापादपसम्पन्नं बहुपुष्पसमाकुलम्