वीणावेणुमृदंगानि लास्यनाट्य युतानि च । जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः 6.154.
चामरैर्विज्यमानो हि छत्रैश्च विविधैरपि । महोत्सवेन महता ह्यानीतः शिवसन्निधौ
पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नान शिवार्चनात् । किं पुनः श्रद्धया भक्त्या शिवाय परमात्माने
पुष्पादिकं फलं गंधं तांबूलाक्षतमेव च । ये प्रयच्छंति लोकेऽस्मिंस्ते रुद्रा नात्र संशयः
महादेव उवाच। तदाप्रभृति तत्तीर्थं खङ्गधारेति विश्रुतम् । एतत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि
माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः । स्नानं येन प्रकुर्वंति मुक्तास्ते नगनंदिनि
वसिष्ठो वामदेवश्च भरद्वाजोऽथ गौतमः । स्नानार्थे वै समायांति देवं द्रष्टुं पिनाकिनम्
त्रियुगे वर्त्तते लिंगं कलौ नैव तु पार्वति । विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा
पार्वत्युवाच। कथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वर । तदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः
महादेव उवाच। एकस्मिन्समये देवि विश्वामित्रो महातपाः । आगतः खङ्गधारेऽस्मिंस्तीर्थे वै परमाद्भुते
साभ्रमत्यां कृतस्नानो दर्शनं कृतवान्मम । तत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकधा
तत्र कोऽपि महादुष्टः कौलिकः पापरुपधृक् । मांसं दत्तं तदा तेन शिवस्योपरि भामिनि
दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनः । अब्रवीच्च तदा तत्र दुष्कृतं पापिना कृतम्
न दत्तस्तस्य दंडो हि शर्वेण परमात्मना । तस्मादहं हि निश्चित्य शापं दास्ये न संशयः
विचार्यैवं तदा तेन शप्तोऽहं देवि वै तदा
अस्मिन्कलियुगे घोरे गुप्तस्त्वं भव सर्वथा । इति दत्वाथ वै शापं गतवान्मुनिसत्तमः
तदा प्रभृति भो देवि गुप्तोऽहं ऋषिशापतः । ममस्थाने विशेषेण पूजनं कुरुते यदि
तेषां हि दुरितं यच्च नश्यते तत्क्षणादपि । मृन्मयीं मामकीं मूर्तिं कृत्वा ये पूजयंति वै
अत्र स्थाने विशेषेण मामके तु वसंति हि । खङ्गधारेश्वर इति नाम्ना ख्यातः कलौयुगे
कृते वै मंदिरं नाम त्रेतायां गौरवः स्मृतः । द्वापरे विश्वविख्यातः कलौ खङ्गेश्वरः स्मृतः
दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि । इति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः
पूजनं कुरुते नित्यं वांछितं फलमाप्नुयात् । धर्मार्थकाममोक्षांश्च लभते मानवो भुवि
धूपं दीपं च नैवेद्यं तथा वै चंदनादिकम् । येऽर्पयंति हि देवेशि लोकनाथे महेश्वरि । न दुःखं तु भवेत्तेषां सत्यं सत्यं वरानने
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्रसंहितायामुउत्तरखंडे धारेश्वरमाहात्म्यं नाम चतुष्पंचाशदधिकशततमोऽध्यायः
महादेव उवाच। दुग्धेश्वरसमीपे तु तीर्थं चातीवपावनम् । रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि
यत्र कृत्वा तपः पूर्वं मातुर्वचनतो मुनिः । उत्पादयामास कृत्यां वडवानलसम्मिताम्
पितुरानृण्यमन्विच्छन्दधीचस्य महात्मनः । तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति
साभ्रमत्यास्तटे गुप्तं पिप्पलादं सुरेश्वरम् । तत्र स्नात्वा तु भो देवि मुक्तिभागी भवेन्नरः
आरोपणं पिप्पलानां कर्त्तव्यं विधिपूर्वकम् । कृते सति महादेवि मुच्यते कर्मबंधनात्
पार्वत्युउवाच। किमर्थं सा तु कृत्या वै उत्पन्ना तां निबोधय । तया वै कृत्यया पूर्वं किं कृतं वद मे प्रभो