नेदुर्दुंदुभयस्तत्र गंधर्वा ललितं जगुः । ननृतुश्चाप्सरः श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे
देवाश्च ऋषयः सर्वे वेदस्तोत्रैः स्तुवंति ते । ततो दयितया सार्द्धं जगाम नृपतिर्हरिम्
तं स्तूयमानं सुरसिद्धसंघैः स विज्वलः पश्यति हृष्टमानसः । समागतस्तिष्ठति यत्र वै पिता माता च वेगेन महाप्रभावः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे नवनवतितमोऽध्यायः
विष्णुरुवाच- नर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता । विज्वलोऽपि समायातः पितरं प्रणिपत्य सः
वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः । समाचष्टे स धर्मात्मा महिमानं पितुः पुरः
यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम् । तत्सर्वं कथयामास सुप्रसन्नेन चेतसा
कुंजलोपि च वृत्तांतं समाकर्ण्य स भूपतेः । हर्षेण महताविष्टः पुत्रमालिंग्य विज्वलम्
आह पुण्यं कृतं वत्स त्वया राज्ञे महात्मने । उपकारं महापुण्यं वासुदेवस्य कीर्तनात्
एवमाभाष्य तं पुत्रमाशीर्भिरभिनंद्य च । पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः
स्थितः सरित्तटे रम्ये च्यवनस्योपपश्यतः । एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम्
वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम् । वेन उवाच- अमृतं शंखपात्रेण पानार्थं मम चार्पितम्
तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले । उत्तमं वैष्णवं ज्ञानं पानानामिह सर्वदा
त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते । श्रोतुं हि देवदेवेश मम श्रद्धा विवर्द्धते
कथयस्व प्रसादान्मे कुंजलस्यापि चेष्टितम् । महात्मना किमुक्तं च चतुर्थं तनयं प्रति
तत्त्वं सुविस्तरादेव कृपया कथयस्व मे । श्रीभगवानुवाच- श्रूयतामभिधास्यामि चरित्रं कुंजलस्य च
बहुश्रेयः समायुक्तं चरित्रं च्यवनस्य च । इदं पुण्यं नरश्रेष्ठ आख्यानं पापनाशनम्
यः शृणोति नरो भक्त्या गोसहस्रफलं लभेत्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे शततमोऽध्यायः
सूत उवाच- देवदेवो हृषीकेशस्त्वंगपुत्रं नृपोत्तमम् । समाचष्ट महाश्रेय आख्यानं पापनाशनम्
श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम् । द्विजस्यापि च वृत्तांतं कुंजलस्य महात्मनः
विष्णुरुवाच- कुंजलश्चापि धर्मात्मा चतुर्थं पुत्रमेव च । समाहूय मुदायुक्त उवाचैनं कपिंजलम्
किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मे । भोजनार्थं तु यासि त्वमितः कस्मिन्सुतोत्तम
तदाचक्ष्व महाभाग यदि दृष्टं सुपुण्यदम् । कपिंजल उवाच- यच्च तात त्वया पृष्टमपूर्वं प्रवदाम्यहम्
यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मया । तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः
शृण्वंतु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम् । कैलासः पर्वतश्रेष्ठो धवलश्चंद्र सन्निभः
नानाधातुसमाकीर्णो नानावृक्षोपशोभितः । गंगाजलैः शुभैः पुण्यैः क्षालितः सर्वतः पितः
नदीनां तु सहस्राणि दिव्यानि विविधानि च । यस्मात्तात प्रसूतानि जलानि विविधानि च
तडागानि सहस्राणि सोदकानि महागिरौ । नद्यः संति विशालिन्यो हंससारससेविताः
तस्मिञ्छिखरिणां श्रेष्ठे पुण्यदाः पापनाशनाः । वनानि विविधान्येव पुष्पितानि फलानि च