जीवस्वरूपेण बिभर्ति लोकांस्ततः स्वमूर्तान्सचराचरांश्च ।। निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये
दैत्यांतकं दुःखविनाशमूलं शांतं परं शक्तिमयं विशालम् ।। यं प्राप्य देवा विनयं प्रयांति तं वासुदेवं शरणं प्रपद्ये
सुखं सुखांतं सुखदं सुरेशं ज्ञानार्णवं तं मुनिपं सुरेशम् ।। सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये
यज्ञांगरूपं परमार्थरूपं मायान्वितं मापतिमुग्रपुण्यम् ।। विज्ञानमेकं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये
अंभोधिमध्ये शयनं हितस्य नागांगभोगे शयनं विशाले ।। श्रीपादपद्मद्वयमेव तस्य तद्वासुदेवस्य नमामि नित्यम्
पुण्यान्वितं शंकरमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम् ।। तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य अघापहं तत्
पादांबुजं रक्तमहोत्पलाभमंभोजसल्लिंगजयोपयुक्तम् ।। अलंकृतं नूपुरमुद्रिकाभिः श्रीवासुदेवस्य नमामि नित्यम्
देवैः सुसिद्धैर्मुनिभिः सदैव नुतं सुभक्त्या उरगाधिपैश्च ।। तत्पादपंकेरुहमेवपुण्यं श्रीवासुदेवस्य नमामि नित्यम्
यस्यापि पादांभसि मज्जमानाः पूता दिवं यांति विकल्मषास्ते ।। मोक्षं लभंते मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये
पादोदकं तिष्ठति यत्र विष्णोर्गंगादितीर्थानि सदैव तत्र ।। पिबंति येद्यापि सपापदेहास्ते यांति शुद्धाः सुगृहं मुरारेः
पादोदकेनाप्यभिषिच्यमाना उग्रैश्च पापैः परिलिप्तदेहाः ।। ते यांति मुक्तिं परमेश्वरस्य तस्यैव पादौ सततं नमामि
नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनस्तु ।। श्रीवाजपेयस्य फलं लभंते सर्वार्थयुक्ताश्च नरा भवंति
नारायणं तं नरकाधिनाशनं मायाविहीनं सकलं गुणज्ञम् ।। यं ध्यायमानाः सुगतिं प्रयांति तं वासुदेवं शरणं प्रपद्ये
यो वंद्यस्त्वृषिसिद्धचारणगणैर्देवैः सदा पूज्यते यः संसारमहार्णवे निपतितस्योद्धारको वत्सल-। स्तस्यैवापि नमाम्यहं सुचरणौ भक्त्या वरौ पावनौ
यो दृष्टो मखमंडपे सुरगणैः श्रीवामनः सामगः ।। सामोद्गीतकुतूहलः सुरगणैस्त्रैलोक्य एकः प्रभुः । । कुर्वंतं नयनेक्षणैः शुभकरैर्निष्पापतां तद्बले-। स्तस्याहं चरणारविंदयुगलं वंदे परं पावनम्
राजंतं द्विजमंडले मखमुखे ब्रह्मश्रियाशोभितं ।। दिव्येनापि सुतेजसा करमयं यं चेंद्रनीलोपमम् । देवानां हितकाम्यया सुतनुजं वैरोचनस्यापि तं-। याचंतं मम दीयतां त्रिपदकं वंदे प्रभुं वामनम्
तं द्रष्टुं रविमंडले मुनिगणैः संप्राप्तवंतं दिवं तस्यैवापि सुचक्रिणः सुरगणाः प्रापुर्लयं सांप्रतं-। का ये विश्वविकोशकेतमतुलं नौमि प्रभोर्विक्रमम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रेऽष्टनवतितमोऽध्यायः
विष्णुरुवाच- स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च । धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव
गतासु तृष्णा क्षुधया समेता देवोपमो भूमिपतिर्बभूव । भार्या च तस्यापि विभाति रूपैर्युक्तावुभौ पापविबंधमाप्तौ
देवः सुदेवैः परिवारितोसौ विप्रैः सुसिद्धैर्हरिभक्तियुक्तैः । आगत्य भूपं गतकल्मषं तं श्रीशंखचक्राब्जगदासिधर्ता
श्रीनारदो भार्गव व्यास पुण्या समागतस्तत्र मृकंडसूनुः । वाल्मीकि नामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः
गर्गो महात्मा हरिभक्तियुक्तो जाबालिरैभ्यावथ कश्यपश्च । आजग्मुरेते हरिणा समेता विष्णुप्रिया भागवतां वरिष्ठाः
पुण्याः सुधन्या गतकल्मषास्ते हरेः सुपादांबुजभक्तियुक्ताः । श्रीवासुदेवं परिवार्य तस्थुः स्तुवंति भूपं विविधप्रकारैः
देवाश्च सर्वे हुतभुङ्मुखाश्च ब्रह्मा हरिश्चापि सुदिव्यदेव्यः । गायंति दिव्यं मधुरं मनोहरं गंधर्वराजादिसुगायनाश्च
सुवेद युक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवंति । दृष्ट्वा पतिं भूपतिमेव देवो हरिर्बभाषे वचनं मनोहरम्
वरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः । हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे
नीलोत्पलाभं मुरघातिनं प्रभुं तं शंखचक्रासिगदाप्रधारिणम् । श्रियासमेतं परमेश्वरं तं रत्नोज्ज्वलं कंकणहारभूषितम्
रविप्रभं देवगणैः सुसेवितं महार्घहाराभरणैः सुभूषितम् । सुदिव्यगंधैर्वरलेपनैर्हरिं सुभक्तिभावैरवनीं गतो नृपः
दंडप्रणामैः सततं नमाम जयेति वाचाथ महानृपस्तदा । दासोस्मि भृत्योस्मि पुरः स ते सदा भक्तिं न जाने न च भावमुत्तमम्