आनंदकंदाय विशुद्धबुद्धये शुद्धाय हंसाय परावराय। । नमोऽस्तु तस्मै गणनायकाय श्रीवासुदेवाय महाप्रभाय
श्रीपांचजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन ।। गदाब्जकेनापि विराजमानं प्रभुं सदैनं शरणं प्रपद्ये
यं वेदगुह्यं सगुणं गुणानामाधारभूतं सचराचरस्य ।। यं सूर्यवैश्वानरतुल्यतेजसं तं वासुदेवं शरणं प्रपद्ये
क्षुधानिधानं विमलं सुरूपमानंदमानेन विराजमानम् । यं प्राप्य जीवंति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये
तमोघनानां स्वकरैर्विनाशं करोति नित्यं परिकर्महेतुः ।। उद्द्योतमानं रविदीप्ततेजसं तं वासुदेवं शरणं प्रपद्ये
यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति ।। यः प्राणिनामंतरगः स वायुस्तं वासुदेवं शरणं प्रपद्ये
स्वेच्छानुरूपेण स देवदेवो बिभर्ति लोकान्सकलान्महीपान् ।। संतारणे नौरिव वर्तते यस्तं वासुदेवं शरणं प्रपद्ये
अंतर्गतो लोकमयः सदैव पचत्यसौ स्थावरजंगमानाम् ।। स्वाहामुखो देवगणस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये
रसैः सुपुण्यैः सकलैः सहैव पुष्णाति सौम्यो गुणदश्च लोके ।। अन्नानि योनिर्मल तेजसैव तं वासुदेवं शरणं प्रपद्ये
अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः ।। विना हृषीकैर्विषयान्प्रभुंक्ते तं वासुदेवं शरणं प्रपद्ये
जीवस्वरूपेण बिभर्ति लोकांस्ततः स्वमूर्तान्सचराचरांश्च ।। निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये
दैत्यांतकं दुःखविनाशमूलं शांतं परं शक्तिमयं विशालम् ।। यं प्राप्य देवा विनयं प्रयांति तं वासुदेवं शरणं प्रपद्ये
सुखं सुखांतं सुखदं सुरेशं ज्ञानार्णवं तं मुनिपं सुरेशम् ।। सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये
यज्ञांगरूपं परमार्थरूपं मायान्वितं मापतिमुग्रपुण्यम् ।। विज्ञानमेकं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये
अंभोधिमध्ये शयनं हितस्य नागांगभोगे शयनं विशाले ।। श्रीपादपद्मद्वयमेव तस्य तद्वासुदेवस्य नमामि नित्यम्
पुण्यान्वितं शंकरमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम् ।। तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य अघापहं तत्
पादांबुजं रक्तमहोत्पलाभमंभोजसल्लिंगजयोपयुक्तम् ।। अलंकृतं नूपुरमुद्रिकाभिः श्रीवासुदेवस्य नमामि नित्यम्
देवैः सुसिद्धैर्मुनिभिः सदैव नुतं सुभक्त्या उरगाधिपैश्च ।। तत्पादपंकेरुहमेवपुण्यं श्रीवासुदेवस्य नमामि नित्यम्
यस्यापि पादांभसि मज्जमानाः पूता दिवं यांति विकल्मषास्ते ।। मोक्षं लभंते मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये
पादोदकं तिष्ठति यत्र विष्णोर्गंगादितीर्थानि सदैव तत्र ।। पिबंति येद्यापि सपापदेहास्ते यांति शुद्धाः सुगृहं मुरारेः
पादोदकेनाप्यभिषिच्यमाना उग्रैश्च पापैः परिलिप्तदेहाः ।। ते यांति मुक्तिं परमेश्वरस्य तस्यैव पादौ सततं नमामि
नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनस्तु ।। श्रीवाजपेयस्य फलं लभंते सर्वार्थयुक्ताश्च नरा भवंति
नारायणं तं नरकाधिनाशनं मायाविहीनं सकलं गुणज्ञम् ।। यं ध्यायमानाः सुगतिं प्रयांति तं वासुदेवं शरणं प्रपद्ये
यो वंद्यस्त्वृषिसिद्धचारणगणैर्देवैः सदा पूज्यते यः संसारमहार्णवे निपतितस्योद्धारको वत्सल-। स्तस्यैवापि नमाम्यहं सुचरणौ भक्त्या वरौ पावनौ
यो दृष्टो मखमंडपे सुरगणैः श्रीवामनः सामगः ।। सामोद्गीतकुतूहलः सुरगणैस्त्रैलोक्य एकः प्रभुः । । कुर्वंतं नयनेक्षणैः शुभकरैर्निष्पापतां तद्बले-। स्तस्याहं चरणारविंदयुगलं वंदे परं पावनम्
राजंतं द्विजमंडले मखमुखे ब्रह्मश्रियाशोभितं ।। दिव्येनापि सुतेजसा करमयं यं चेंद्रनीलोपमम् । देवानां हितकाम्यया सुतनुजं वैरोचनस्यापि तं-। याचंतं मम दीयतां त्रिपदकं वंदे प्रभुं वामनम्
तं द्रष्टुं रविमंडले मुनिगणैः संप्राप्तवंतं दिवं तस्यैवापि सुचक्रिणः सुरगणाः प्रापुर्लयं सांप्रतं-। का ये विश्वविकोशकेतमतुलं नौमि प्रभोर्विक्रमम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रेऽष्टनवतितमोऽध्यायः
विष्णुरुवाच- स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च । धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव
गतासु तृष्णा क्षुधया समेता देवोपमो भूमिपतिर्बभूव । भार्या च तस्यापि विभाति रूपैर्युक्तावुभौ पापविबंधमाप्तौ