ममैवं पीड्यमानस्य क्षुधया हृदयं प्रिये ।। निर्गतं चोत्सुकं कांते शांतिश्चित्ते प्रवर्तते
यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शांतिदम् ।। तावच्चित्ते समाह्लादो वर्तते चारुहासिनि
कोयं देवो नु गंधर्वः सहस्राक्षो भविष्यति ।। मुनीनां स्याद्वचः सत्यं यदुक्तं मुनिना पुरा
एवमाभाषितं श्रुत्वा प्रियस्यानंतरं प्रिया ।। राजानं प्रत्युवाचाथ भार्या पतिपरायणा
सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम् ।। यथा ते वर्तते कांत मम चित्ते तथा पुनः
पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत् ।। एवमाभाषितं श्रुत्वा प्रियायाः पृथिवीपतिः
बद्धांजलिपुटोभूत्वा पक्षिणं वाक्यमब्रवीत् ।। सुबाहुरुवाच- स्वागतं ते महाप्राज्ञ पक्षिरूपधरः प्रभो
शिरसा भार्यया सार्द्धं तव पादांबुजद्वयम् ।। नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः
भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषते ।। यादृशं क्रियतेकर्म पूर्वदेहेन सत्तम
सुकृतं दुष्कृतं वापि तदिहैव प्रभुज्यते ।। अथ तेनात्मकं वृत्तं तस्याग्रे च निवेदितम्
यथोक्तं कुंजलेनापि पित्रा पूर्वं श्रुतं तथा ।। कथयस्वात्मवृत्तांतं भवान्को मां प्रभाषते
सुबाहुं प्रत्युवाचेदं वाक्यं पक्षिवरस्तदा ।। विज्वल उवाच- शुकजात्यां समुत्पन्नः कुंजलोनाम मे पिता
तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम् ।। नाहं देवो न गंधर्वो न च सिद्धो महाभुज
नित्यमेव प्रपश्यामि कर्म चैवं सुदारुणम् ।। कियत्कालं महत्कर्म साहसाकारसंयुतम्
करिष्यसि महाराज तन्मे कथय सांप्रतम् ।। सुबाहुरुवाच- वासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणैः
श्रोष्याम्यहं यदा भद्र गतिं स्वां प्राप्नुयां तदा ।। पुण्यात्मना भाषितं वै मुनिना संयतात्मना
तदाहं पातकान्मुक्तो भविष्यामि न संशयः ।। विज्वल उवाच- तवार्थे पृच्छितस्तातस्तेन मे कथितं च यत्
तत्तेद्याहं प्रवक्ष्यामि शाश्वतं शृणु सत्तम
ॐअस्य श्रीवासुदेवाभिधानस्य स्तोत्रस्य नारदऋषिरनुष्टुप्छंदः । ॐकारोदेवता सर्वपातकनाशनार्थे चतुर्वर्गसाधनार्थे च जपे विनियोगः । ॐनमो भगवते वासुदेवाय इति मंत्रः । पावनं परमं पुण्यं वेदज्ञं वेदमंदिरम् ।। विद्याधारं भवाधारं प्रणवं वै नमाम्यहम्
निरावासं निराकारं सुप्रकाशं महोदयम् ।। निर्गुणं गुणसंबद्धं नमामि प्रणवं परम्
महाकांतं महोत्साहं महामोहविनाशनम् ।। आचिन्वंतं जगत्सर्वं गुणातीतं नमाम्यहम्
भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्द्धनः। । अभयं भिक्षुसंबद्धं नमामि प्रणवं शिवम्
गायत्रीसाम गायंतं गीतं गीतप्रियं शुभम् ।। गंधर्वगीतभोक्तारं प्रणवं प्रणमाम्यहम्
विचारं वेदरूपं तं यज्ञस्थं भक्तवत्सलम् ।। योनिं सर्वस्य लोकस्य ॐकारं प्रणमाम्यहम्
तारकं सर्वभूतानां नौरूपेण विराजितम् ।। संसारार्णवमग्नानां नमामि प्रणवं हरिम्
सर्वलोकेषु वसते एकरूपेण नैकधा ।। धामकैवल्यरूपेण नमामि प्रणवं शिवम्
सूक्ष्मं सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम् ।। वर्जितं प्राकृतैर्भावैर्वेदस्थानं नमाम्यहम्
देवदैत्यवियोगैश्च वर्जितं तुष्टिभिः सदा ।। दैवैश्च योगिभिर्ध्येयं तमोंकारं नमाम्यहम्
व्यापकं विश्ववेत्तारं विज्ञानं परमं शुभम् ।। शिवं शिवगुणं शांतं वंदे प्रणवमीश्वरम्
यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराः। । न विंदंति परं शुद्धं मोक्षद्वारं नमाम्यहम्