ध्यात्वा नत्वा हृषीकेशं सर्वक्लेशविनाशनम् ।। सर्वश्रेयः प्रदातारं हरेः स्तोत्रमुदीरितम्
वासुदेवाभिधानं तत्सर्वश्रेयः प्रदायकम् ।। मोक्षद्वारं सुखोपेतं शांतिदं पुष्टिवर्द्धनम्
सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्द्धनम् ।। वासुदेवस्य यत्स्तोत्रं विज्वलाय प्रकाशितम्
वासुदेवाभिधानं चाप्रमेयं पुण्यवर्द्धनम् ।। सोऽवगम्य पितुः सर्वं विज्वलः पक्षिणांवरः
तत्रगंतुंप्रचक्रामपितुःपृष्टंतदानृप ।। एवं गंतुं कृतमतिं विज्वलं ज्ञानपारगम्
उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम्
कुंजल उवाच- पुत्र तस्य महज्जाने पातकं भूपतेः शृणु ।। यतो गत्वा पठ स्वत्वं सुबाहोश्चोपशृण्वतः
यथायथा श्रोष्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति ।। श्रीवासुदेवस्य न संशयो वै तस्य प्रसादात्सुशिवं मयोक्तम्
आमंत्र्य स गुरुं पश्चादुड्डीय लघुविक्रमः ।। आनंदकाननं पुण्यं संप्राप्तो विज्वलस्तदा
वृक्षच्छायां समाश्रित्य उपविष्टो मुदान्वितः । समालोक्य स राजानं विमानेनागतं पुनः
एष्यत्यसौ कदा राजा सुबाहुः प्रियया सह ।। पातकान्मोचयिष्यामि स्तोत्रेणानेन वै कदा
तावद्विमानः संप्राप्तः किंकिणीजालमंडितः ।। घंटारवसमाकीर्णो वीणावेणुसमन्वितः
गंधर्वस्वरसंघुष्टश्चाप्सरोभिः समन्वितः ।। सर्वकामसमृद्धस्तु अन्नोदकविवर्जितः
तस्मिन्याने स्थितो राजा सुबाहुः प्रियया सह ।। समुत्तीर्णो विमानात्स सुतार्क्ष्य प्रियया सह
शस्त्रमादाय तीक्ष्णं तु यावत्कृंतति तच्छवम् ।। तावद्धि विज्वलेनापि समाह्वानं कृतं तदा
भो भोः पुरुषशार्दूल देवोपम भवानिदम् ।। करोति निर्घृणं कर्म नृशंसैर्न च शक्यते
कर्तुं पुरुषशार्दूल कोऽयं विधिविपर्ययः ।। दुष्कृतं साहसं कर्म निंद्यं लोकेषु सर्वदा
वेदाचारविहीनं तु कस्मात्प्रारब्धवानि ह ।। तन्मे त्वं कारणं सर्वं कथयस्व यथा तथा
इत्येवं भाषितं तस्य विज्वलस्य महात्मनः ।। समाकर्ण्य महाराजः स्वप्रियां वाक्यमब्रवीत्
प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा ।। कदा न भाषितं केन यथायं परिभाषते
ममैवं पीड्यमानस्य क्षुधया हृदयं प्रिये ।। निर्गतं चोत्सुकं कांते शांतिश्चित्ते प्रवर्तते
यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शांतिदम् ।। तावच्चित्ते समाह्लादो वर्तते चारुहासिनि
कोयं देवो नु गंधर्वः सहस्राक्षो भविष्यति ।। मुनीनां स्याद्वचः सत्यं यदुक्तं मुनिना पुरा
एवमाभाषितं श्रुत्वा प्रियस्यानंतरं प्रिया ।। राजानं प्रत्युवाचाथ भार्या पतिपरायणा
सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम् ।। यथा ते वर्तते कांत मम चित्ते तथा पुनः
पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत् ।। एवमाभाषितं श्रुत्वा प्रियायाः पृथिवीपतिः
बद्धांजलिपुटोभूत्वा पक्षिणं वाक्यमब्रवीत् ।। सुबाहुरुवाच- स्वागतं ते महाप्राज्ञ पक्षिरूपधरः प्रभो
शिरसा भार्यया सार्द्धं तव पादांबुजद्वयम् ।। नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः
भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषते ।। यादृशं क्रियतेकर्म पूर्वदेहेन सत्तम
सुकृतं दुष्कृतं वापि तदिहैव प्रभुज्यते ।। अथ तेनात्मकं वृत्तं तस्याग्रे च निवेदितम्