एवं श्रुत्वा ततो राजा भार्यया सह वै पुनः । स्वशरीरस्य वै मांसं भक्षते प्रियया सह
नित्यमेव महाप्राज्ञ तद्वत्पूर्णं भवेद्वपुः । नित्यं प्रभक्षते राजा राज्ञी तस्य च पुत्रक
यथायथा च राजा च भक्षते च कलेवरम् । हसेते वै सदा नार्यौ तयोर्भावं वदाम्यहम्
प्रज्ञा सार्द्धं महासाध्वी चरित्रं तस्य भूपतेः । हास्यं हि कुरुते नित्यं तस्य श्रद्धानपायिनी
प्रज्ञया प्रेर्यमाणेन न दत्तं श्रद्धयान्वितम् । ब्राह्मणेभ्यः सुसंकल्प्य अन्नमुद्दिश्य वैष्णवे
एवं स भक्षते मांसं स्वस्य कायस्य नित्यदा । योषिदप्यात्मकायं च रसैश्चामृतसन्निभैः
ततो वर्षशतांते तु वामदेवं महामुनिम् । स्मृत्वा स गर्हयामास आत्मानं प्रति सुव्रत
न दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः कदा मया । न दत्तमतिथिभ्यो हि वृद्धेभ्यश्च विशेषतः
दीनेभ्यो हि न दत्तं च कृपया चातुराय च । एवं स भुंक्ते स्वं मांसं गर्हयन्स्वीय कर्म च
एवं स्वमांसं भुंजानं सुबाहुं प्रियया सह । हसेते च तदा दृष्ट्वा प्रज्ञा श्रद्धा च द्वे स्त्रियौ
तस्य कर्मविपाकस्य शुभात्मा हसते नृप । मम संगप्रसंगेन न दत्तं पापचेतन
प्रज्ञा च वचनैस्तैस्तु राजानं हसते पुनः । क्वगतोसौ महामोहो येन त्वं मोहितो नृप
लोभेन मोहयुक्तेन तमोगर्ते निपात्यते । तत्रापतित्वा मामैव पतितं दुःखसंकटे
दानमार्गं परित्यज्य लोभमार्गं गतो नृप । भार्यया सह भुंक्ष्व त्वं व्यापितः क्षुधया भृशम्
एवं तं हसते प्रज्ञा सुबाहुं प्रिययान्वितम् । एतद्धि कारणं सर्वं तयोर्हासस्य पुत्रक
भक्ष्यमाणस्य भूपस्य देहं स्वं दुःखिते तदा । ऊचतुर्देहिदेहीति याच्यमानः सदैव हि
क्षुधातृष्णामहाप्राज्ञ भीमरूपे भयानके । पयसा मिश्रितं भक्षं याचेते नृपतीश्वरम्
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् । अन्यत्किं ते प्रवक्ष्यामि तद्वदस्व महामते
विज्वल उवाच- वासुदेवाभिधानं तत्स्तोत्रं कथय मे पितः । येन मोक्षं व्रजेद्राजा तद्विष्णोः परमं पदम्
सूत उवाच- एवमुक्ते शुभे वाक्ये विज्वलेन महात्मना ।। कुंजलो वदतां श्रेष्ठः स्तोत्रं पुण्यमुदैरयत्
ध्यात्वा नत्वा हृषीकेशं सर्वक्लेशविनाशनम् ।। सर्वश्रेयः प्रदातारं हरेः स्तोत्रमुदीरितम्
वासुदेवाभिधानं तत्सर्वश्रेयः प्रदायकम् ।। मोक्षद्वारं सुखोपेतं शांतिदं पुष्टिवर्द्धनम्
सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्द्धनम् ।। वासुदेवस्य यत्स्तोत्रं विज्वलाय प्रकाशितम्
वासुदेवाभिधानं चाप्रमेयं पुण्यवर्द्धनम् ।। सोऽवगम्य पितुः सर्वं विज्वलः पक्षिणांवरः
तत्रगंतुंप्रचक्रामपितुःपृष्टंतदानृप ।। एवं गंतुं कृतमतिं विज्वलं ज्ञानपारगम्
उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम्
कुंजल उवाच- पुत्र तस्य महज्जाने पातकं भूपतेः शृणु ।। यतो गत्वा पठ स्वत्वं सुबाहोश्चोपशृण्वतः
यथायथा श्रोष्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति ।। श्रीवासुदेवस्य न संशयो वै तस्य प्रसादात्सुशिवं मयोक्तम्
आमंत्र्य स गुरुं पश्चादुड्डीय लघुविक्रमः ।। आनंदकाननं पुण्यं संप्राप्तो विज्वलस्तदा
वृक्षच्छायां समाश्रित्य उपविष्टो मुदान्वितः । समालोक्य स राजानं विमानेनागतं पुनः