कर्मैव कारणं राजन्नराणां सुखदुःखयोः । जन्ममृत्य्वोर्महाभाग भुंक्ष्व तत्कर्मणः फलम्
पूर्वेपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा । पुनः प्रयाता भूर्लोकं कर्मणः क्षयकालतः
नलो भगीरथश्चैव विश्वामित्रो युधिष्ठिरः । कर्मणैव हि संप्राप्ताः स्वर्गं राजन्स्वकालतः
दिष्टं हि प्राक्तनं कर्म तेन दुःखं सुखं लभेत् । तदुल्लंघयितुं राजन्कः समर्थोपि हीश्वरः
अथ तस्मान्नृपश्रेष्ठ स्वर्गतस्यापि तेऽभवत् । क्षुत्तृष्णासंभवो वेगस्ततो दुष्टं हि कर्म ते
यदि ते क्षुत्प्रतीकारो ह्यभीष्टो नृपसत्तम । तद्गत्वा भुंक्ष्व कायं स्वमानंदारण्यसंस्थितम्
तव चेयं महाराज्ञी क्षुत्क्षामातीव दृश्यते । सुबाहुरुवाच- कियत्कालमिदं कर्म कर्तव्यं प्रियया सह
तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा । कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम
तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोसि सांप्रतम् । वामदेव उवाच- अन्नदानान्महासौख्यमुदकस्य महामते
भुंजंति मर्त्याः स्वर्गं वै पीड्यंते नैव पातकैः । यदा दानं न दत्तं तु भवेदपि हि मानवैः
मृत्युकालेपि संप्राप्ते दानं सर्वे ददंति च । आदावेव प्रदातव्यमन्नं चोदकसंयुतम्
सुच्छत्रोपानहौ दद्याज्जलपात्रं सुशोभनम् । भूमिं सुकांचनं धेनुमष्टौ दानानि योऽर्पयेत्
स्वर्गे न जायते तस्य क्षुधातृष्णादिसंभवः । क्षुधा न बाधते राजन्नन्नदानात्स तृप्तिमान्
तृष्णा तीव्रा नहि स्याद्वै तृप्तो भवति सर्वदा । पादुकायाः प्रदानेन च्छत्रदानेन भूपते
छायामाप्नोति दाता वै वाहनं च नृपोत्तम । उपानहप्रदानेन अन्यदेवं वदाम्यहम्
भूमिदानान्महाभाग सर्वकामानवाप्नुयात् । गोदानेन महाराज रसैः पुष्टो भवेत्सदा
सर्वान्भोगान्प्रभुंजानः स्वर्गलोके वसेन्नरः । तृप्तो भवति वै दाता गोदानेन न संशयः
नीरुजः सुखसंपन्नः संतुष्टस्तु धनान्वितः । कांचनेन सुवर्णस्तु जायते नात्र संशयः
श्रीमांश्च रूपवांस्त्यागी रत्नभोक्ता भवेन्नरः । मृत्युकाले तु संप्राप्ते तिलदानं प्रयच्छति
सर्वभोगपतिर्भूत्वा विष्णुलोकं प्रयाति सः । एवं दानविशेषेण प्राप्यते परमं सुखम्
गोदानं भूमिदानं तु अन्नोदके च वै त्वया । जीवमानेन राजेंद्र न दत्तं ब्राह्मणाय वै
मृत्युकालेपि नो दत्तं तस्मात्क्षुधा प्रवर्तते । एतत्ते कारणं प्रोक्तं जातं कर्मवशानुगम्
यादृशं तु कृतं कर्म तादृशं परिभुज्यते । सुबाहुरुवाच- कथं क्षुधा प्रशांतिं मे प्रयाति मुनिसत्तम
अनया शोषितः कायो ह्यतीव परिदूयते । क्षुधां प्रति द्विजश्रेष्ठ प्रायश्चित्तं वदस्व नौः
कर्मणश्चास्यघोरस्य यथा शांतिर्भवेन्मम । वामदेव उवाच- प्रायश्चित्तं न चैवास्ति ऋतेभोगान्नृपोत्तम
कर्मणोस्य फलं सर्वं भवान्स्वस्थः प्रभोक्ष्यति । यत्र ते पतितः कायः प्रियायाश्चैव भूपते
युवाभ्यां हि प्रगंतव्यमितश्चैव न संशयः । उभाभ्यामपि भोक्तव्यं कायमक्षयमेव तत्
स्वंस्वं राजन्न संदेहस्त्वया वै प्रियया सह । राजोवाच- कियत्कालं प्रभोक्तव्यं मयैवं प्रियया सह
तदादिश महाभाग प्रमाणं तद्वचो मम । वामदेव उवाच- वासुदेव महास्तोत्रं महापातकनाशनम्
यदा त्वं श्रोष्यसे पुण्यं तदा मोक्षं प्रयास्यसि । एतत्ते सर्वमाख्यातं गच्छ राजन्प्रभुंक्ष्वहि