क्षेत्रस्य उप्तबीजस्य यथा क्षेत्री प्रभुंजति । फलमेव महाराज तथा दाता भुनक्ति च
प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा । ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः
मानवानां महाराज वापिताः प्रददंति च । फलमेवं न संदेहो यादृशं तादृशं ध्रुवम्
कटुकाद्धि न जायेत राजन्मधुर एव च । तद्वच्च मधुराख्याच्च न जायेत्कटुकः पुनः
यादृशं वपते बीजं तादृशं फलमश्नुते । न वापयति यः क्षेत्रं न स भुंजति तत्फलम्
तद्वद्विप्राश्च देवाश्च पितरः क्षेत्ररूपिणः । दर्शयंति फलं राजन्दत्तस्यापि न संशयः
यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम् । तादृशं भुंक्ष्व वै राजन्नन्यथा तन्न जायते
न पुरा देवविप्रेभ्यः पितृभ्यश्च कदाचन । मिष्टान्नपानमेवापि दत्तं सुमनसा तदा
सुभोज्यैर्भोजनैर्मृष्टैर्मधुरैश्चोष्यपेयकैः । सुभक्ष्यैरात्मना भुक्तं कस्मै दत्तं न च त्वया
स्वशरीरं त्वया पुष्टमन्नैरमृतसन्निभैः । यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते
कर्मैव कारणं राजन्नराणां सुखदुःखयोः । जन्ममृत्य्वोर्महाभाग भुंक्ष्व तत्कर्मणः फलम्
पूर्वेपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा । पुनः प्रयाता भूर्लोकं कर्मणः क्षयकालतः
नलो भगीरथश्चैव विश्वामित्रो युधिष्ठिरः । कर्मणैव हि संप्राप्ताः स्वर्गं राजन्स्वकालतः
दिष्टं हि प्राक्तनं कर्म तेन दुःखं सुखं लभेत् । तदुल्लंघयितुं राजन्कः समर्थोपि हीश्वरः
अथ तस्मान्नृपश्रेष्ठ स्वर्गतस्यापि तेऽभवत् । क्षुत्तृष्णासंभवो वेगस्ततो दुष्टं हि कर्म ते
यदि ते क्षुत्प्रतीकारो ह्यभीष्टो नृपसत्तम । तद्गत्वा भुंक्ष्व कायं स्वमानंदारण्यसंस्थितम्
तव चेयं महाराज्ञी क्षुत्क्षामातीव दृश्यते । सुबाहुरुवाच- कियत्कालमिदं कर्म कर्तव्यं प्रियया सह
तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा । कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम
तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोसि सांप्रतम् । वामदेव उवाच- अन्नदानान्महासौख्यमुदकस्य महामते
भुंजंति मर्त्याः स्वर्गं वै पीड्यंते नैव पातकैः । यदा दानं न दत्तं तु भवेदपि हि मानवैः
मृत्युकालेपि संप्राप्ते दानं सर्वे ददंति च । आदावेव प्रदातव्यमन्नं चोदकसंयुतम्
सुच्छत्रोपानहौ दद्याज्जलपात्रं सुशोभनम् । भूमिं सुकांचनं धेनुमष्टौ दानानि योऽर्पयेत्
स्वर्गे न जायते तस्य क्षुधातृष्णादिसंभवः । क्षुधा न बाधते राजन्नन्नदानात्स तृप्तिमान्
तृष्णा तीव्रा नहि स्याद्वै तृप्तो भवति सर्वदा । पादुकायाः प्रदानेन च्छत्रदानेन भूपते
छायामाप्नोति दाता वै वाहनं च नृपोत्तम । उपानहप्रदानेन अन्यदेवं वदाम्यहम्
भूमिदानान्महाभाग सर्वकामानवाप्नुयात् । गोदानेन महाराज रसैः पुष्टो भवेत्सदा
सर्वान्भोगान्प्रभुंजानः स्वर्गलोके वसेन्नरः । तृप्तो भवति वै दाता गोदानेन न संशयः
नीरुजः सुखसंपन्नः संतुष्टस्तु धनान्वितः । कांचनेन सुवर्णस्तु जायते नात्र संशयः
श्रीमांश्च रूपवांस्त्यागी रत्नभोक्ता भवेन्नरः । मृत्युकाले तु संप्राप्ते तिलदानं प्रयच्छति
सर्वभोगपतिर्भूत्वा विष्णुलोकं प्रयाति सः । एवं दानविशेषेण प्राप्यते परमं सुखम्