तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम् । स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव
अहमेतच्छरीरं वै खङ्गधारव्रतेन च । त्यक्ष्याम्यद्य वरारोहे किं चिरंजीवनेन मे
इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम् । आगताश्च गणास्तावद्बहवः शिवनोदिताः
विमानानि बहून्यत्र आगतानि तदंतिके । दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति । कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः । कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं मम । पुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः
गणा ऊचुः। प्रेषितास्मो वयं चंड शिवेन परमेष्ठिना । आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह
लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च । तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम्
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव । किं मया सुकृतं चीर्णं पापिना पुष्कसेन हि
मृगयारसिकेनैव मूढेन च दुरात्मना । पापाचारोह्यहं नित्यं कथं स्वर्गे वसाम्यहम्
कथं लिगार्चनं चाद्या कृतमस्ति तदुच्यताम् । परं कौतुकमापन्नः पृच्छामि कृपया वद
वीरभद्र उवाच। देवदेवो महादेवो यो गंगाधरसंज्ञकः । परितुष्टोऽद्य ते चंड सभार्यस्य उमापतिः
प्रासंगिकं त्वया चाद्य कृतमर्चनमेव च । कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि
छेदितानि त्वया चंड पतितानि तदैव हि । लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो
तवैवं जागरो जातो महावृक्षोपरि ध्रुवम् । तेनैव जागरेणैव तुतोष जगदीश्वरः
छलेनैव महाभाग कोलसंदर्शनेन हि । शिवरात्रिदिनं व्याध प्रसंगेनाप्युपोषितम्
तेनोपवासेन च जागरेणतुष्टो ह्यसौ देववरो महात्मा । तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च
एवमुक्तस्तदा तेन वीरभद्रेण धीमता । पुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम्
गणानां देवतानां च सर्वेषां प्राणिनामपि । तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः
वीणावेणुमृदंगानि लास्यनाट्य युतानि च । जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः 6.154.
चामरैर्विज्यमानो हि छत्रैश्च विविधैरपि । महोत्सवेन महता ह्यानीतः शिवसन्निधौ
पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नान शिवार्चनात् । किं पुनः श्रद्धया भक्त्या शिवाय परमात्माने
पुष्पादिकं फलं गंधं तांबूलाक्षतमेव च । ये प्रयच्छंति लोकेऽस्मिंस्ते रुद्रा नात्र संशयः
महादेव उवाच। तदाप्रभृति तत्तीर्थं खङ्गधारेति विश्रुतम् । एतत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि
माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः । स्नानं येन प्रकुर्वंति मुक्तास्ते नगनंदिनि
वसिष्ठो वामदेवश्च भरद्वाजोऽथ गौतमः । स्नानार्थे वै समायांति देवं द्रष्टुं पिनाकिनम्
त्रियुगे वर्त्तते लिंगं कलौ नैव तु पार्वति । विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा
पार्वत्युवाच। कथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वर । तदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः
महादेव उवाच। एकस्मिन्समये देवि विश्वामित्रो महातपाः । आगतः खङ्गधारेऽस्मिंस्तीर्थे वै परमाद्भुते