अमृताज्जज्ञिरे सर्वा ओषध्यः पुष्टिहेतवः । अन्नमेव सुसंस्कृत्य औषधव्यंजनान्वितम्
देवेभ्यो विष्णुरूपेभ्य इति संकल्प्य दीयते । पितृभ्यो विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य हि
अतिथिभ्यस्ततो दत्वा परिजनं प्रभोजयेत् । स्वयं तु भुंजते पश्चात्तदन्नममृतोपमम्
प्रेत्य दुःखं न चैवास्ति तस्य सौख्यं तु भूपते । ब्राह्मणाः पितरो देवाः क्षत्ररूपाश्च भूपते
यथा हि कर्षकः कश्चित्सुकृषिं कुरुते सदा । तद्वन्मर्त्यः कृषिं कुर्यात्क्षेत्रे विप्रास्यके नृप
स्वभावलांगलेनापि श्रद्धा शस्त्रेण भेदयेत् । वृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा
सत्यज्ञानानुभावीशः शुद्धात्मा तु प्रतोदकः । विप्रनाम्नि महाक्षेत्रे नमस्कारैर्विसर्जयेत्
स्फोटयेत्कल्मषं नित्यं कृषिको हि यथा नृप । क्षेत्रस्य उद्यमे युक्तो विष्णुकामः प्रसादयेत्
तद्वद्वाक्यैः शुभैः पुण्यैर्विप्रांश्चापि प्रसादयेत् । पर्वतीर्थाप्तिकालश्च घनरूपोभिवर्षणे
वप्तुकामो भवेत्क्षेत्री ततः क्षेत्रे प्रवापयेत् । तद्वद्भूपप्रसन्नाय विप्राय परिदीयते
क्षेत्रस्य उप्तबीजस्य यथा क्षेत्री प्रभुंजति । फलमेव महाराज तथा दाता भुनक्ति च
प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा । ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः
मानवानां महाराज वापिताः प्रददंति च । फलमेवं न संदेहो यादृशं तादृशं ध्रुवम्
कटुकाद्धि न जायेत राजन्मधुर एव च । तद्वच्च मधुराख्याच्च न जायेत्कटुकः पुनः
यादृशं वपते बीजं तादृशं फलमश्नुते । न वापयति यः क्षेत्रं न स भुंजति तत्फलम्
तद्वद्विप्राश्च देवाश्च पितरः क्षेत्ररूपिणः । दर्शयंति फलं राजन्दत्तस्यापि न संशयः
यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम् । तादृशं भुंक्ष्व वै राजन्नन्यथा तन्न जायते
न पुरा देवविप्रेभ्यः पितृभ्यश्च कदाचन । मिष्टान्नपानमेवापि दत्तं सुमनसा तदा
सुभोज्यैर्भोजनैर्मृष्टैर्मधुरैश्चोष्यपेयकैः । सुभक्ष्यैरात्मना भुक्तं कस्मै दत्तं न च त्वया
स्वशरीरं त्वया पुष्टमन्नैरमृतसन्निभैः । यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते
कर्मैव कारणं राजन्नराणां सुखदुःखयोः । जन्ममृत्य्वोर्महाभाग भुंक्ष्व तत्कर्मणः फलम्
पूर्वेपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा । पुनः प्रयाता भूर्लोकं कर्मणः क्षयकालतः
नलो भगीरथश्चैव विश्वामित्रो युधिष्ठिरः । कर्मणैव हि संप्राप्ताः स्वर्गं राजन्स्वकालतः
दिष्टं हि प्राक्तनं कर्म तेन दुःखं सुखं लभेत् । तदुल्लंघयितुं राजन्कः समर्थोपि हीश्वरः
अथ तस्मान्नृपश्रेष्ठ स्वर्गतस्यापि तेऽभवत् । क्षुत्तृष्णासंभवो वेगस्ततो दुष्टं हि कर्म ते
यदि ते क्षुत्प्रतीकारो ह्यभीष्टो नृपसत्तम । तद्गत्वा भुंक्ष्व कायं स्वमानंदारण्यसंस्थितम्
तव चेयं महाराज्ञी क्षुत्क्षामातीव दृश्यते । सुबाहुरुवाच- कियत्कालमिदं कर्म कर्तव्यं प्रियया सह
तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा । कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम
तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोसि सांप्रतम् । वामदेव उवाच- अन्नदानान्महासौख्यमुदकस्य महामते
भुंजंति मर्त्याः स्वर्गं वै पीड्यंते नैव पातकैः । यदा दानं न दत्तं तु भवेदपि हि मानवैः