दुःखशोकौ विधूयेह सर्वदोषैः प्रमुच्यते । नामोच्चारेण देवस्य विष्णोश्चैव सुचक्रिणः
पुण्यात्मानो महाभागा ध्यायमाना जनार्दनम् । त्वयैवाराधितो देवः शंखचक्रगदाधरः
अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम् । फलं तस्य प्रजानामि न दृष्टो मधुसूदनः
क्षुधा मे बाधते राजंस्तृष्णा चैव प्रशोषयेत् । कुंजल उवाच- एवमुक्तस्तु प्रियया राजा चिंताकुलेंद्रियः
ततो दृष्ट्वा महापुण्यमाश्रमं श्रमनाशनम् । दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम्
वापीकुंडतडागैश्च पुण्यतोयप्रपूरितैः । हंसकारंडवाकीर्णं कह्लारैरुपशोभितम्
आश्रमः शोभते पुत्र मुनिभिस्तत्त्ववेदिभिः । दिव्यवृक्षसमाकीर्णं मृगव्रातैश्च शोभितम्
नानापुष्पसमाकीर्णं हृद्यगंधसमाकुलम् । द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम्
योगियोगेंद्र संघुष्टं देववृंदैरलंकृतम् । कदलीवनसंबाधैः सुफलैः परिशोभितम्
नानावृक्षसमाकीर्णं सर्वकामसमन्वितम् । श्रीखंडैश्चारुगंधैश्च सुफलैः शोभितं सदा
एवं पुण्यं समाकीर्णं ब्रह्मलक्ष्मसमायुतम् । स सुबाहुस्ततो राजा तया सुप्रियया सह
प्रविवेश महापुण्यं तद्वनं सर्वकामदम् । भासमानो दिशः सर्वा यत्रास्ते सूर्यसंनिभः
राजमानो महादीप्त्या परया सूर्यसंनिभः । योगासनसमारूढो योगपट्टेन संवृतः
वामदेवऋषिश्रेष्ठो वैष्णवानां वरस्तथा । ध्यायमानो हृषीकेशं भुक्तिमुक्तिप्रदायकम्
वामदेवं महात्मानं तं दृष्ट्वा मुनिसत्तमम् । त्वरं गत्वा प्रणम्यैव स राजा प्रियया सह
वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम् । आशीर्भिरभिनंद्यैव राजानं प्रिययान्वितम्
उपवेश्यासने पुण्ये सुबाहुं राजसत्तमम् । आसनादि ततः पाद्यैरर्घपूजादिभिस्तथा
मुनिना पूजितो भूपः प्रियया सह चागतः । अथ पप्रच्छ राजानं महाभागवतोत्तमम्
वामदेव उवाच- त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तमम् । जाने ज्ञानेन राजेंद्र दिव्येन चोलभूमिपम्
निरामयश्चागतोसि तार्क्ष्यया भार्यया सह । राजोवाच- निरामयश्चागतोऽस्मि प्राप्तो विष्णोः परं पदम्
मया हि परया भक्त्या देवदेवो जनार्दनः । आराधितो जगन्नाथो भक्तिप्रीतः सुरेश्वरम्
कस्मात्पश्याम्यहं तात न देवं कमलापतिम् । क्षुधा मे बाधते तात तृष्णातीव सुदारुणा
ताभ्यां शांतिं न गच्छाव सुखं विंदाव नैव च । एतन्मेकारणं दुःखं संजातं मुनिसत्तम
तन्मे त्वं कारणं ब्रूहि प्रसादात्सुमुखो भव । वामदेव उवाच- त्वं तु भक्तोसि राजेंद्र श्रीकृष्णस्य सदैव हि
आराधितस्त्वया भक्त्या परया मधुसूदनः । भक्त्योपचारैः स्नानाद्यैर्गंधपुष्पादिभिस्तथा
न पूजितोऽथ नैवेद्यैः फलैश्च जगतांपतिः । दशमीं प्राप्य राजेंद्र त्वयैव च सदा कृतम्
एकभक्तं न दत्तं तु ब्राह्मणाय सुभोजनम् । एकादशीं तु संप्राप्य न कृतं भोजनं त्वया
विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया । अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा
अन्नदानं विशेषेण कदा दत्तं न हि त्वया । ओषध्यश्च महाराज नानाभेदास्तु ताः शृणु
कटु तिक्त कषायाश्च मधुराम्लाश्च क्षारकाः । हिंग्वाद्योपस्कराः सर्वे नानारूपाश्च भूपते