वापीकूपतडागानां प्रपानां चैव वेश्मनाम् । आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः
असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि । रिपुष्वपिहिता ये च ते नराः स्वर्गगामिनः
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः । सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः
कुर्वंत्यवंध्यं दिवसं धर्मेणैकेन सर्वदा । व्रतं गृह्णंति ये नित्यं ते नराः स्वर्गगामिनः
आक्रोशंतं स्तुवंतं च तुल्यं पश्यंति ये नराः । शांतात्मानो जितात्मानस्ते नराः स्वर्गगामिनः
ये चापि भयसंत्रस्तान्ब्राह्मणांश्च तथा स्त्रियः । सार्थान्वा परिरक्षंति ते नराः स्वर्गगामिनः
गंगायां पुष्करे तीर्थे गयायां च विशेषतः । पितृपिंडप्रदातारस्ते नराः स्वर्गगामिनः
न वशे चेंद्रियाणां च ये नराः संयमस्थिताः । त्यक्तलोभभयक्रोधास्ते नराः स्वर्गगामिनः
यूका मत्कुणदंशादीन्ये जंतूंस्तुदतस्तनुम् । पुत्रवत्परिरक्षंति ते नराः स्वर्गगामिनः
अज्ञानाच्च यथोक्तेन विधिना संचयंति च । सर्वद्वंद्वसहा लोके ते नराः स्वर्गगामिनः
ये पूताः परदारांश्च कर्मणा मनसा गिरा । रमयंति न सत्वस्थास्ते नराः स्वर्गगामिनः
निंदितानि न कुर्वंति कुर्वंति विहितानि च । आत्मशक्तिं विजानंति ते नराः स्वर्गगामिनः
एवं ते कथितं सर्वं मया तत्त्वेन पार्थिव । दुर्गतिः सद्गतिश्चैव प्राप्यते कर्मभिर्यथा
नरः परेषां प्रतिकूलमाचरन्प्रयाति घोरं नरकं सुदारुणम् । सदानुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदूरसंस्थिता
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे षण्णवतितमोऽध्यायः
सप्तनवतितमोऽध्यायः । कुंजल उवाच- एवमाकर्ण्य तां राजा मुनिना भाषितां तदा । धर्माधर्मगतिं सर्वां तं मुनिं समभाषत
सुबाहुरुवाच- सोहं धर्मं करिष्यामि सोहं पुण्यं द्विजोत्तम । वासुदेवं जगद्योनिं यजिष्ये नितरां मुने
होमेन तु जपेनैव पूजयेन्मधुसूदनम् । यष्ट्वा यज्ञं तपस्तप्त्वा विष्णुलोकं स भूपतिः
पूजितः सर्वकामैश्च प्राप्तवान्सत्वरं मुदा । गते तस्मिन्महालोके देवदेवं न पश्यति
क्षुधा जाता महातीव्रा तृष्णा चाति प्रवर्तते । तयोश्चापि महाप्राज्ञ जीवपीडाकरा बहु
राजापि प्रियया सार्द्धं क्षुधातृष्णाप्रपीडितः । न पश्यति हृषीकेशं दुःखेन महतान्वितः
सूत उवाच- एवं स दुःखितो राजा प्रियया सह सत्तम । आकुल व्याकुलो जातः पीडितः क्षुधया भृशम्
इतश्चेतश्च वेगैश्च धावते वसुधाधिपः । सर्वाभरणशोभांगो वस्त्रचंदनभूषितः
पुष्पमालाप्रशोभांगो हारकुंडलकंकणैः । रत्नदीप्तिप्रशोभांगः प्रययौ स महीपतिः
एवं दुःखसमाचारः स्तूयमानश्च पाठकैः । दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत्
विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने । ऋषिभिः स्तूयमानोपि विमानेनापि भामिनि
कर्मणा केन मे चेयं क्षुधातीव प्रवर्द्धते । विष्णुलोकं च संप्राप्य न दृष्टो मधुसूदनः
तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम् । कर्मणाथ निजेनापि एतद्दुःखं प्रवर्त्तते
सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत्
भार्योवाच- सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम् । वेदशास्त्रपुराणेषु ये पठंति च ब्राह्मणाः