नियमान्पूर्वमादाय ये पश्चादजितेंद्रियाः । अतिक्रामंति चांचल्यात्ते वै निरयगामिनः
इत्येते कथिता राजन्नरा निरयगामिनः । स्वर्गलोकस्य गंतारो ये जनास्तान्निबोध मे
सत्येन तपसा क्षांत्या दानेनाध्ययनेन च । ये धर्ममनुवर्तंते ते नराः स्वर्गगामिनः
ये च होमपरा ध्यानदेवतार्चनतत्पराः । आददाना महात्मानस्ते नराः स्वर्गगामिनः
शुचयश्च शुचौ देशे वासुदेवपरायणाः । पठंति विष्णुं गायंति ते नराः स्वर्गगामिनः
मातापित्रोश्च शुश्रूषां ये कुर्वंति सदादृताः । वर्जयंति दिवास्वप्नं ते नराः स्वर्गगामिनः
सर्वहिंसानिवृत्ताश्च साधुसंगाश्च ये नराः । सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः
सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः
शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः । प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः । त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः
भयात्पापात्तपाच्छोकाद्दारिद्र्यव्याधिकर्शितान् । विमुंचंति च ये जंतूंस्ते नराः स्वर्गगामिनः
आत्मस्वरूपवंतश्च यौवनस्थाश्च भारत । ये वै जितेंद्रिया धीरास्ते नराः स्वर्गगामिनः
सुवर्णस्य च दातारो गवां भूमेश्च भारत । अन्नानां वाससां चैव ते नराः स्वर्गगामिनः
ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च । त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः
निवेशनानां धान्यानां नराणां च परंतप । स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः
द्विषतामपि ये दोषान्न वदंति कदाचन । कीर्तयंति गुणान्ये च ते नराः स्वर्गगामिनः
ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात् । प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः
प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च । आचरंति महात्मानस्ते नराः स्वर्गगामिनः
ये नराणां वचो वक्तुं न जानंति च विप्रियम् । प्रियवाक्यैकविज्ञातास्ते नराः स्वर्गगामिनः
ये नामभागान्कुर्वंति क्षुत्तृष्णा श्रमपीडिताः । हंतकारस्य कर्तारस्ते नराः स्वर्गगामिनः
वापीकूपतडागानां प्रपानां चैव वेश्मनाम् । आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः
असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि । रिपुष्वपिहिता ये च ते नराः स्वर्गगामिनः
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः । सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः
कुर्वंत्यवंध्यं दिवसं धर्मेणैकेन सर्वदा । व्रतं गृह्णंति ये नित्यं ते नराः स्वर्गगामिनः
आक्रोशंतं स्तुवंतं च तुल्यं पश्यंति ये नराः । शांतात्मानो जितात्मानस्ते नराः स्वर्गगामिनः
ये चापि भयसंत्रस्तान्ब्राह्मणांश्च तथा स्त्रियः । सार्थान्वा परिरक्षंति ते नराः स्वर्गगामिनः
गंगायां पुष्करे तीर्थे गयायां च विशेषतः । पितृपिंडप्रदातारस्ते नराः स्वर्गगामिनः
न वशे चेंद्रियाणां च ये नराः संयमस्थिताः । त्यक्तलोभभयक्रोधास्ते नराः स्वर्गगामिनः
यूका मत्कुणदंशादीन्ये जंतूंस्तुदतस्तनुम् । पुत्रवत्परिरक्षंति ते नराः स्वर्गगामिनः
अज्ञानाच्च यथोक्तेन विधिना संचयंति च । सर्वद्वंद्वसहा लोके ते नराः स्वर्गगामिनः