विपर्यस्यंति ये दाराञ्छिशून्भृत्यातिथींस्तथा । उत्सन्नपितृदेवेज्या नरा निरयगामिनः
प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः । सखीनां दूषकाश्चैव ते वै निरयगामिनः
आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् । न चिंतयंति ये विष्णुं ते वै निरयगामिनः
प्रयाजानां मखानां च कन्यानां सुहृदां तथा । साधूनां च गुरूणां च दूषका निरयगामिनः
काष्ठैर्वा शंकुभिर्वापि शून्यैरश्मभिरेव वा । ये मार्गानुपरुंधंति ते वै निरयगामिनः
सर्वभूतेष्वविश्वस्ताः कामेनार्तास्तथैव च । सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः
आगतान्भोजनार्थं तु ब्राह्मणान्वृत्तिकर्शितान् । प्रतिषेधं च कुर्वंति ते वै निरयगामिनः
क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः । आशाच्छेदं प्रकुर्वंति ते वै निरयगामिनः
शस्त्राणां चैव कर्त्तारः शल्यानां धनुषां तथा । विक्रेतारश्च राजेंद्र नरा निरयगामिनः
अनाथं विक्लवं दीनं रोगार्त्तं वृद्धमेव च । नानुकंपंति ये मूढास्ते वै निरयगामिनः
नियमान्पूर्वमादाय ये पश्चादजितेंद्रियाः । अतिक्रामंति चांचल्यात्ते वै निरयगामिनः
इत्येते कथिता राजन्नरा निरयगामिनः । स्वर्गलोकस्य गंतारो ये जनास्तान्निबोध मे
सत्येन तपसा क्षांत्या दानेनाध्ययनेन च । ये धर्ममनुवर्तंते ते नराः स्वर्गगामिनः
ये च होमपरा ध्यानदेवतार्चनतत्पराः । आददाना महात्मानस्ते नराः स्वर्गगामिनः
शुचयश्च शुचौ देशे वासुदेवपरायणाः । पठंति विष्णुं गायंति ते नराः स्वर्गगामिनः
मातापित्रोश्च शुश्रूषां ये कुर्वंति सदादृताः । वर्जयंति दिवास्वप्नं ते नराः स्वर्गगामिनः
सर्वहिंसानिवृत्ताश्च साधुसंगाश्च ये नराः । सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः
सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः
शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः । प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः । त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः
भयात्पापात्तपाच्छोकाद्दारिद्र्यव्याधिकर्शितान् । विमुंचंति च ये जंतूंस्ते नराः स्वर्गगामिनः
आत्मस्वरूपवंतश्च यौवनस्थाश्च भारत । ये वै जितेंद्रिया धीरास्ते नराः स्वर्गगामिनः
सुवर्णस्य च दातारो गवां भूमेश्च भारत । अन्नानां वाससां चैव ते नराः स्वर्गगामिनः
ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च । त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः
निवेशनानां धान्यानां नराणां च परंतप । स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः
द्विषतामपि ये दोषान्न वदंति कदाचन । कीर्तयंति गुणान्ये च ते नराः स्वर्गगामिनः
ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात् । प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः
प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च । आचरंति महात्मानस्ते नराः स्वर्गगामिनः
ये नराणां वचो वक्तुं न जानंति च विप्रियम् । प्रियवाक्यैकविज्ञातास्ते नराः स्वर्गगामिनः
ये नामभागान्कुर्वंति क्षुत्तृष्णा श्रमपीडिताः । हंतकारस्य कर्तारस्ते नराः स्वर्गगामिनः