तेन दृष्टा प्रचंडा सा आयांती क्रूरलोचना । सा तस्य भार्या नद्यां वै जलमध्ये पपात ह
तावत्तयोक्तश्चंडात्मा एहि शीघ्रं च भक्षय । समानीतं त्वदर्थं च मत्स्यमांसं मयाधुना
कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यते । नाशितं च त्वया मूढ कुटुंबं लंघते तव
एतच्छ्रुत्वा तु वचनं चंडायाश्चंडरूपवान् । शिवरात्र्युपवासेन रात्रौ जागरणेन च
शुद्धांतःकरणो जातः स्नातुं नद्यां शुचिव्रतः । यावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः
शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरि । चंडा प्रकुपिता तं च श्वानं हंतुमुपस्थिता
निवारिता हि चंडेन चंडा प्रकुपिता तदा । न हंतव्यस्त्वया चैष किमनेनाशुभं कृतम्
तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मना । किं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः
पुष्कस उवाच। यच्छुना भक्षितं चान्नं तेनाहं परितोषितः । किमनेन शरीरेण नश्वरेण गतायुषा
ये पुष्यंति शरीरं वै सर्वभावेन भामिनि । मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः
तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम् । स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव
अहमेतच्छरीरं वै खङ्गधारव्रतेन च । त्यक्ष्याम्यद्य वरारोहे किं चिरंजीवनेन मे
इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम् । आगताश्च गणास्तावद्बहवः शिवनोदिताः
विमानानि बहून्यत्र आगतानि तदंतिके । दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति । कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः । कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं मम । पुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः
गणा ऊचुः। प्रेषितास्मो वयं चंड शिवेन परमेष्ठिना । आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह
लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च । तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम्
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव । किं मया सुकृतं चीर्णं पापिना पुष्कसेन हि
मृगयारसिकेनैव मूढेन च दुरात्मना । पापाचारोह्यहं नित्यं कथं स्वर्गे वसाम्यहम्
कथं लिगार्चनं चाद्या कृतमस्ति तदुच्यताम् । परं कौतुकमापन्नः पृच्छामि कृपया वद
वीरभद्र उवाच। देवदेवो महादेवो यो गंगाधरसंज्ञकः । परितुष्टोऽद्य ते चंड सभार्यस्य उमापतिः
प्रासंगिकं त्वया चाद्य कृतमर्चनमेव च । कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि
छेदितानि त्वया चंड पतितानि तदैव हि । लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो
तवैवं जागरो जातो महावृक्षोपरि ध्रुवम् । तेनैव जागरेणैव तुतोष जगदीश्वरः
छलेनैव महाभाग कोलसंदर्शनेन हि । शिवरात्रिदिनं व्याध प्रसंगेनाप्युपोषितम्
तेनोपवासेन च जागरेणतुष्टो ह्यसौ देववरो महात्मा । तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च
एवमुक्तस्तदा तेन वीरभद्रेण धीमता । पुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम्
गणानां देवतानां च सर्वेषां प्राणिनामपि । तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः