तस्य सर्वार्थसिद्धिः स्यात्पापं सर्वं विलीयते । विमुक्तः सर्वपापेभ्यो विष्णुलोकं सगच्छति
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे पंचनवतितमोऽध्यायः
सुबाहुरुवाच- कीदृशैः कर्मभिः प्रेत्य गच्छंति नरकं नराः । स्वर्गं तु कीदृशैः प्रेत्य तन्मे त्वं वक्तुमर्हसि
जैमिनिरुवाच- ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः । कुकर्माण्युपजीवंति ते वै निरयगामिनः
नास्तिका भिन्नमर्यादाः कंदर्पविषयोन्मुखाः । दांभिकाश्च कृतघ्नाश्च ते वै निरयगामिनः
ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छंति ये धनम् । ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः
पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः । असंबद्धप्रलापाश्च ते वै निरयगामिनः
ये परस्वापहर्तारः परदूषणसूचकाः । परस्त्रीगामिनो ये च ते वै निरयगामिनः
प्राणिनां प्राणहिंसायां ये नरा निरताः सदा । परनिंदारता ये वै ते वै निरयगामिनः
सुकूपानां तडागानां प्रपानां च परंतप । सरसां चैव भेत्तारो नरा निरयगामिनः
विपर्यस्यंति ये दाराञ्छिशून्भृत्यातिथींस्तथा । उत्सन्नपितृदेवेज्या नरा निरयगामिनः
प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः । सखीनां दूषकाश्चैव ते वै निरयगामिनः
आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् । न चिंतयंति ये विष्णुं ते वै निरयगामिनः
प्रयाजानां मखानां च कन्यानां सुहृदां तथा । साधूनां च गुरूणां च दूषका निरयगामिनः
काष्ठैर्वा शंकुभिर्वापि शून्यैरश्मभिरेव वा । ये मार्गानुपरुंधंति ते वै निरयगामिनः
सर्वभूतेष्वविश्वस्ताः कामेनार्तास्तथैव च । सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः
आगतान्भोजनार्थं तु ब्राह्मणान्वृत्तिकर्शितान् । प्रतिषेधं च कुर्वंति ते वै निरयगामिनः
क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः । आशाच्छेदं प्रकुर्वंति ते वै निरयगामिनः
शस्त्राणां चैव कर्त्तारः शल्यानां धनुषां तथा । विक्रेतारश्च राजेंद्र नरा निरयगामिनः
अनाथं विक्लवं दीनं रोगार्त्तं वृद्धमेव च । नानुकंपंति ये मूढास्ते वै निरयगामिनः
नियमान्पूर्वमादाय ये पश्चादजितेंद्रियाः । अतिक्रामंति चांचल्यात्ते वै निरयगामिनः
इत्येते कथिता राजन्नरा निरयगामिनः । स्वर्गलोकस्य गंतारो ये जनास्तान्निबोध मे
सत्येन तपसा क्षांत्या दानेनाध्ययनेन च । ये धर्ममनुवर्तंते ते नराः स्वर्गगामिनः
ये च होमपरा ध्यानदेवतार्चनतत्पराः । आददाना महात्मानस्ते नराः स्वर्गगामिनः
शुचयश्च शुचौ देशे वासुदेवपरायणाः । पठंति विष्णुं गायंति ते नराः स्वर्गगामिनः
मातापित्रोश्च शुश्रूषां ये कुर्वंति सदादृताः । वर्जयंति दिवास्वप्नं ते नराः स्वर्गगामिनः
सर्वहिंसानिवृत्ताश्च साधुसंगाश्च ये नराः । सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः
सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः
शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः । प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः । त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः