सुखव्याप्तमनस्कानां सहसा पतनं तथा । इह यत्क्रियते कर्म फलं तत्रैव भुज्यते
कर्मभूमिरियं राजन्फलभूमिरसौ स्मृता । सुबाहुरुवाच- महांतस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः
निर्दोषाः शाश्वता येन्ये तांस्त्वं लोकान्वद द्विज । जैमिनिरुवाच- आब्रह्मसदनादेव दोषाः संति च वै नृप
अतएव हि नेच्छंति स्वर्गप्राप्तिं मनीषिणः । आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम्
शुभं सनातनं ज्योतिः परंब्रह्मेति तद्विदुः । न तत्र मूढा गच्छंति पुरुषा विषयात्मकाः
दंभमोहभयद्रोह क्रोधलोभैरभिद्रुताः । निर्ममा निरहंकारा निर्द्वंद्वास्संयतेंद्रियाः
ध्यानयोगरताश्चैव तत्र गच्छंति साधवः । एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
एवं स्वर्गगुणं श्रुत्वा सुबाहुः पृथिवीपतिः । तमुवाच महात्मानं जैमिनिं वदतांवरम्
सुबाहुरुवाच- नाहं स्वर्गं गमिष्यामि न चैवेच्छाम्यहं मुने । यस्माच्च पतनं प्रोक्तं तत्कर्म न करोम्यहम्
दानमेकं महाभाग नाहं दास्येकदाध्रुवम् । दानाच्च फललोभाच्च तस्मात्पतति वै नरः
इत्येवमुक्त्वा धर्मात्मा सुबाहुः पृथिवीपतिः । ध्यानयोगेन देवेशं यजिष्ये कमलाप्रियम्
दाहप्रलयसंवर्जं विष्णुलोकं व्रजाम्यहम् । जैमिनिरुवाच- सत्यमुक्तं त्वया भूप सर्वश्रेयः समाकुलम्
राजानो धर्मशीलाश्च महायज्ञैर्यजंति ते । सर्वदानानि दीयंते यज्ञेषु नृपनंदन
आदावन्नं तु यज्ञेषु वस्त्रं तांबूलमेव च । कांचनं भूमिदानं च गोदानं प्रददंति च
सुयज्ञैर्वैष्णवं लोकं ते प्रयांति नरोत्तमाः । दानेन तृप्तिमायांति संतुष्टाः संति भूमिपाः
तपस्विनो महात्मानो नित्यमेवं यजंति ते । सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः
भिक्षार्थं तस्य भागानि प्रकुर्वंति च भूपते । ब्राह्मणाय विभागैकं गोग्रासं तु महामते
सुपार्श्ववर्तिनां चैकं प्रयच्छंति तपोधनाः । तस्यान्नस्य प्रदानेन फलं भुंजंति मानवाः
क्षुधातृषाविहीनास्ते विष्णुलोकं व्रजंति वै । तस्मात्त्वमपि राजेंद्र देहि न्यायार्जितं धनम्
दानाज्ज्ञानं ततः प्राप्य ज्ञानात्सिद्धिं प्रयास्यति । य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम्
तस्य सर्वार्थसिद्धिः स्यात्पापं सर्वं विलीयते । विमुक्तः सर्वपापेभ्यो विष्णुलोकं सगच्छति
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे पंचनवतितमोऽध्यायः
सुबाहुरुवाच- कीदृशैः कर्मभिः प्रेत्य गच्छंति नरकं नराः । स्वर्गं तु कीदृशैः प्रेत्य तन्मे त्वं वक्तुमर्हसि
जैमिनिरुवाच- ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः । कुकर्माण्युपजीवंति ते वै निरयगामिनः
नास्तिका भिन्नमर्यादाः कंदर्पविषयोन्मुखाः । दांभिकाश्च कृतघ्नाश्च ते वै निरयगामिनः
ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छंति ये धनम् । ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः
पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः । असंबद्धप्रलापाश्च ते वै निरयगामिनः
ये परस्वापहर्तारः परदूषणसूचकाः । परस्त्रीगामिनो ये च ते वै निरयगामिनः
प्राणिनां प्राणहिंसायां ये नरा निरताः सदा । परनिंदारता ये वै ते वै निरयगामिनः
सुकूपानां तडागानां प्रपानां च परंतप । सरसां चैव भेत्तारो नरा निरयगामिनः