अक्षयं जायते तस्य दानस्यापि महाफलम् । न च प्रस्थं न वा मुष्टिं नरस्य हि न संभवेत्
अनास्तिक्यप्रभावेण पर्वणि प्राप्य मानवः । श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत्
एकस्यापि प्रधानस्य अन्नस्यापि प्रजेश्वर । जन्मांतरं सुसंप्राप्य नित्यं चान्नं प्रभुंजति
पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः । जन्मांतरं सुसंप्राप्य नित्यमेव भुनक्ति च
अन्नदानं प्रयच्छंति ब्राह्मणेभ्यो हि नित्यशः । मिष्टान्नपानं भुंजंति ते नरा अन्नदायिनः
अन्नमेव वदंत्येत ऋषयो वेदपारगाः । प्राणभूतं न संदेहममृताद्धि समुद्भवम्
प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम् । अन्नदानं महाराज देहि त्वं तु प्रयत्नतः
एवमाकर्ण्य वै राजा जैमिनेस्तु महात्मनः । पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपंडितम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुर्नवतितमोऽध्यायः
सुबाहुरुवाच- स्वर्गस्य मे गुणान्ब्रूहि सांप्रतं द्विजसत्तम । एतत्सर्वं द्विजश्रेष्ठ करिष्यामि स्वभाविकम्
जैमिनिरुवाच- नंदनादीनि रम्याणि दिव्यानि विविधानि च । तत्रोद्यानानि पुण्यानि सर्वकामयुतानि च
सर्वकामफलैर्वृक्षैः शोभनानि समंततः । विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः
सर्वत्रैव विचित्राणि कामगानि वशानि च । तरुणादित्यवर्णानि मुक्ताजालांतराणि च
चंद्रमंडलशुभ्राणि हेमशय्यासनानि च । सर्वकामसमृद्धाश्च सर्वदुःखविवर्जिताः
नराः सुकृतिनस्तेषु विचरंति यथा भुवि । न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाः
न नृशंसा न पिशुना न कृतघ्ना न मानिनः । सत्यास्तपःस्थिताः शूरा दयावंतः क्षमापराः
यज्वानो दानशीलाश्च तत्र गच्छंति ते नराः । न रोगो न जरामृत्युर्न शोको न हिमातपौ
न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न विद्यते । एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते
दोषास्तत्रैव ये संति ताञ्छृणुष्व च सांप्रतम् । शुभस्य कर्मणः कृत्स्नं फलं तत्रैव भुज्यते
न चात्र क्रियते भूयः सोऽत्र दोषो महान्स्मृतः । असंतोषश्च भवति दृष्ट्वा दीप्तां परां श्रियम्
सुखव्याप्तमनस्कानां सहसा पतनं तथा । इह यत्क्रियते कर्म फलं तत्रैव भुज्यते
कर्मभूमिरियं राजन्फलभूमिरसौ स्मृता । सुबाहुरुवाच- महांतस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः
निर्दोषाः शाश्वता येन्ये तांस्त्वं लोकान्वद द्विज । जैमिनिरुवाच- आब्रह्मसदनादेव दोषाः संति च वै नृप
अतएव हि नेच्छंति स्वर्गप्राप्तिं मनीषिणः । आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम्
शुभं सनातनं ज्योतिः परंब्रह्मेति तद्विदुः । न तत्र मूढा गच्छंति पुरुषा विषयात्मकाः
दंभमोहभयद्रोह क्रोधलोभैरभिद्रुताः । निर्ममा निरहंकारा निर्द्वंद्वास्संयतेंद्रियाः
ध्यानयोगरताश्चैव तत्र गच्छंति साधवः । एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
एवं स्वर्गगुणं श्रुत्वा सुबाहुः पृथिवीपतिः । तमुवाच महात्मानं जैमिनिं वदतांवरम्
सुबाहुरुवाच- नाहं स्वर्गं गमिष्यामि न चैवेच्छाम्यहं मुने । यस्माच्च पतनं प्रोक्तं तत्कर्म न करोम्यहम्
दानमेकं महाभाग नाहं दास्येकदाध्रुवम् । दानाच्च फललोभाच्च तस्मात्पतति वै नरः