पीडयंति नरं पश्चात्पीडितं पूर्वकर्मणा । येन यत्रोपभोक्तव्यं दुःखं वा सुखमेव च
स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते । दैवं प्राहुश्च भूतानां सुखदुःखोपपादनम्
अन्यथा कर्मतच्चिंत्यं जाग्रतः स्वपतोपि वा । अन्यथा ह्युद्यते दैवं बध्यते च जिघांसति
शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं सुरक्षति । यथा पृथिव्यां बीजानि वृक्षगुल्मतृणान्यपि
तथैवात्मनि कर्माणि तिष्ठंति प्रभवंति च । तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति
कर्मक्षयात्तथा जंतोः शरीरं नाशमृच्छति । कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतम्
विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः । तस्मात्तत्त्वप्रधानस्तु कर्म एव हि प्राणिनाम्
यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते । यत्त्वया दृष्टमेवापि पृच्छितं तात सांप्रतम्
तस्यार्थं तु मया प्रोक्तं भुंजाते तौ हि सांप्रतम् । आनंदे कानने दृष्टं तयोः कर्मसुदारुणम्
तयोश्चेष्टां प्रवक्ष्यामि शृणु वत्स प्रभाषतः । कर्मभूमिरियं तात अन्या भोगार्थभूमयः
सर्गादीनां महाप्राज्ञ तासु गत्वा सुभुंजति । सूत उवाच- चौलदेशे महाप्राज्ञः सुबाहुर्नाम भूमिपः
रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः । विष्णुभक्तो महाप्राज्ञो वैष्णवानां च सुप्रियः
कर्मणा त्रिविधेनापि प्रध्यायन्मधुसूदनम् । अश्वमेधादिकान्यज्ञान्यजेत सकलान्नृप
पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः । स चाहूय सुबाहुं तमिदं वचनमब्रवीत्
राजन्देहि सुदानानि यैः सुखं तु प्रभुंज्यत । दानैस्तु तरते लोकान्दुर्गान्प्रेत्य गतो नरः
दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम् । दानेन चातुला कीर्तिर्जायते मृत्युमंडले
यावत्कीर्तिः स्थिता चात्र तावत्कर्ता दिवं वसेत् । तद्दानं दुष्करं प्राहुर्दातुं नैव प्रशक्यते
तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा । सुबाहुरुवाच- दानाच्च तपसो वापि द्वयोर्मध्ये सुदुष्करम्
किं वा महत्फलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम । जैमिनिरुवाच- दानान्न दुष्करतरं पृथिव्यामस्ति किंचन
राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम् । परित्यज्य प्रियान्प्राणान्धनार्थं लोभमोहिताः
प्रविशंति नरा लोके समुद्रमटवीं तथा । सेवामन्ये प्रपद्यंतेऽश्ववृत्तिरिति या स्थिता
हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा पुरा । तस्य दुःखार्जितस्यापि प्राणेभ्योपि गरीयसः
अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः । विशेषतो महाराज तस्य न्यायार्जितस्य च
श्रद्धया विधिवत्पात्रे दत्तस्यांतो न विद्यते । श्रद्धा धर्मसुता देवी पावनी विश्वतारिणी
सावित्री प्रसवित्री च संसारार्णवतारिणी । श्रद्धया साध्यते धर्मो महद्भिर्न्नार्थराशिभिः
निष्किंचनास्तु मुनयः श्रद्धाधर्मा दिवं गताः । संति दानान्यनेकानि नानाभेदैर्नृपोत्तम
अन्नदानात्परं नास्ति प्राणिनां गतिदायकम् । तस्मादन्नं प्रदातव्यं पयसा च समन्वितम्
मधुरेणापि पुण्येन वचसा च समन्वितम् । नास्त्यन्नात्तु परं दानमिहलोके परत्र च
तारणाय हितायैव सुखसंपत्तिहेतवे । श्रद्धया विधिवत्पात्रे निर्मलेनापि चेतसा
अन्नैकस्य प्रदानस्य फलं भुंक्ते भवेन्नरः । ग्रासाद्ग्रासं प्रदातव्यं मुष्टिप्रस्थं न संशयः