खगान्नानाविधांश्चैव विध्वा कांश्चित्प्रपातयेत् । पक्षिणो घातयन्क्रुद्धो बर्हिणश्च विशेषतः
लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः । भार्या तथाविधा तस्य पुंश्चली च महामया
एवं विहरतस्तस्य बहुकालो व्यवर्त्तत । एकदा निशि पापीयान्श्रीवृक्षोपरि संस्थितः
कोलं हंतुं धनुःपाणिः शरं संयोज्य कार्मुके । एवं निशा गता तस्य जाग्रतो निमिषस्य हि । माघमासे सितायां वै चतुर्दश्यां नगात्मजे
श्रीवृक्षपत्राणि बहूनि तत्र संच्छेदयामास रुषान्वितोऽपि । श्रीवृक्षमूले परिवर्त्तमानं लिगं च तस्योपरितानि पेतुः
श्रीवृक्षपर्णानि च दैवयोगात्जातं च सर्वं शिवपूजनं तत्
गंडूषकारिणा तेन स्नपनं च महत्कृतम् । अज्ञानिना च तेनैव पुष्कसेन दुरात्मना
माघमासे सिते पक्षे चतुर्दश्यां विधूदये । पुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः
तस्य भार्या प्रचंडा च आगता तस्य सन्निधौ । निराशा च निराहारा यत्रासौ पुष्कसः स्थितः
न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वा । अशनार्थं च तस्यैव अन्नमादाय भामिनी
तेन दृष्टा प्रचंडा सा आयांती क्रूरलोचना । सा तस्य भार्या नद्यां वै जलमध्ये पपात ह
तावत्तयोक्तश्चंडात्मा एहि शीघ्रं च भक्षय । समानीतं त्वदर्थं च मत्स्यमांसं मयाधुना
कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यते । नाशितं च त्वया मूढ कुटुंबं लंघते तव
एतच्छ्रुत्वा तु वचनं चंडायाश्चंडरूपवान् । शिवरात्र्युपवासेन रात्रौ जागरणेन च
शुद्धांतःकरणो जातः स्नातुं नद्यां शुचिव्रतः । यावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः
शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरि । चंडा प्रकुपिता तं च श्वानं हंतुमुपस्थिता
निवारिता हि चंडेन चंडा प्रकुपिता तदा । न हंतव्यस्त्वया चैष किमनेनाशुभं कृतम्
तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मना । किं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः
पुष्कस उवाच। यच्छुना भक्षितं चान्नं तेनाहं परितोषितः । किमनेन शरीरेण नश्वरेण गतायुषा
ये पुष्यंति शरीरं वै सर्वभावेन भामिनि । मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः
तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम् । स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव
अहमेतच्छरीरं वै खङ्गधारव्रतेन च । त्यक्ष्याम्यद्य वरारोहे किं चिरंजीवनेन मे
इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम् । आगताश्च गणास्तावद्बहवः शिवनोदिताः
विमानानि बहून्यत्र आगतानि तदंतिके । दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति । कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः । कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं मम । पुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः
गणा ऊचुः। प्रेषितास्मो वयं चंड शिवेन परमेष्ठिना । आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह
लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च । तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम्
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव । किं मया सुकृतं चीर्णं पापिना पुष्कसेन हि