सरस्यथ जलं पीत्वा संजातौ सुखितौ पितः । कियत्कालं स्थितौ तत्र विमानेन गतौ पुनः
अन्ये द्वे तु स्त्रियौ तात मया दृष्टे च तत्र वै । रूपसौभाग्यसंपन्ने ते स्त्रियौ चारुलक्षणे
ताभ्यां प्रभक्षितं मांसं यदा तात महावने । प्रहसेते तदा ते द्वे हास्यैरट्टाट्टकैःपुनः
भक्षते च स्वमांसानि तावेतौ परिनित्यशः । कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि
अन्ये स्त्रियौ महाभाग रौद्रा कारसमन्विते । दंष्ट्राकरालवदने तत्रैवाति विभीषणे
ऊचतुस्तौ तदा ते तु देहिदेहीति वै पुनः । एवं दृष्टं मया तात वसता वनसंनिधौ
नित्यमुत्कीर्य भक्ष्येते तौ द्वौ तु मांसमेव च । जायेते च सुसंपूर्णौ कायौ च शवयोः पुनः
नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः । कुर्वंति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः
एतदाश्चर्य संजातं दृष्टं तात मया तदा । भवता पृच्छितं तात दृष्टमाश्चर्यमेव च
मया ख्यातं तवाग्रे वै सर्वसंदेहकारणम् । कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा
विमानेनागतो योसौ स्त्रिया सार्द्धं द्विजोत्तम । दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः
का च नारी महाभाग महामांसं प्रभक्षति । स कश्चाप्यागतस्तात सा चैवाभ्येत्य भक्षति
प्रहसेते तदा ते द्वे स्त्रियौ तात वदस्व नः । ऊचतुस्तौ तथा चान्ये देहिदेहीति वा पुनः
तेद्वेत्वं मे समाचक्ष्व महाभीषणके स्त्रियौ । एतन्मे संशयं तात छेत्तुमर्हसि सुव्रत
एवमुक्त्वा महाराज विरराम स चांडजः । एवं पृष्टस्तृतीयेन विज्वलेनात्मजेन सः
प्रोवाच सर्वं वृत्तांतं च्यवनस्यापि शृण्वतः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे त्रिनवतितमोऽध्यायः
कुंजल उवाच- श्रूयतामभिधास्यामि तत्सर्वं कारणं सुत । यस्मात्तौ तादृशौ जातौ स्वमांसपरिभक्षकौ
सर्वत्र कारणं कर्म शुभाशुभं न संशयः । पुण्येन कर्मणा पुत्र नरः सौख्यं प्रभुंजति
दुष्कृतं भुंजते चात्र पापयुक्तेन कर्मणा । सूक्ष्मवर्त्मविचार्यैवं शास्त्रज्ञानेन चक्षुषा
स्थूलधर्मं प्रदृष्ट्वैव सुविचार्य पुनः पुनः । समारभेन्नरः कर्म मनसा निपुणेन च
समूर्तिकारकः शिल्पी रसमावर्त्तयेद्यथा । अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समंततः
द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः । यादृशं वत्स भक्ष्यंतु रसपक्वं निषेच्यते
तादृशं जायते वत्स रूपं चैव न संशयः । यादृशं क्रियते कर्म तादृशं परिभुज्यते
कर्म एव प्रधानं यद्वर्षारूपेण वर्त्तते । क्षेत्रेषु यादृशं बीजं वपते कृषिकारकः
तादृशं भुंजते तात फलमेव न संशयः । यादृशं क्रियते कर्म तादृशं परिभुज्यते
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् । कर्म दायादका लोके कर्म संबंधिबांधवाः
कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः । सुवर्णं रजतं वापि यथारूपं निषिच्यते
तथा निषिच्यते जंतुः पूर्वकर्मवशानुगः । पंचैतानीह दृश्यंते गर्भस्थस्यैव देहिनः
आयुः कर्म च वित्तं च विद्यानि धनमेव च । यथा मृत्पिंडकं कर्त्ता कुरुते यद्यदिच्छति