अश्वमेधफलं भुंक्ते स्नानेनैकेन मानवः । एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम्
सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम् । एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे द्विनवतितमोऽध्यायः
कुंजल उवाच- किं विज्वल त्वया दृष्टमपूर्वं भ्रमता महीम् । आश्चर्येण समायुक्तं तन्मे कथय सुव्रत
इतः प्रयासि कं देशमाहारार्थं तु सोद्यमी । यद्य दृष्टं त्वया चित्रं समाख्याहि सुतोत्तम
विज्वल उवाच- अस्ति मेरुगिरेः पृष्ठे आनंदं नाम काननम् । दिव्यवृक्षैः समाकीर्णंफ लपुष्पमयैः सदा
देववृंदैः समाकीर्णं मुनिसिद्धसमन्वितम् । अप्सरोभिः सुरूपाभिर्गंधर्वैः किन्नरोरगैः
वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा । आनंदकाननं पुण्यं दिव्यभावैः प्रभासते
विमानैः कोटिसंख्याभिर्हंसकुंदेंदुसन्निभैः । गीतकोलाहलैः रम्यैर्मेघध्वनिनिनादितम्
षट्पदानां निनादेन सर्वत्र मधुरायते । चंदनैश्चूतवृक्षैश्च चंपकैः पुष्पितैर्वृतम्
नानावृक्षैः प्रभात्येवमानंदवनमुत्तमम् । नानापक्षिनिनादेन बहुकोलाहलान्वितम्
एवमानंदनं दृष्टं मया तत्र सुशोभनम् । विमलं च सरस्तात शोभते सागरोपमम्
संपूर्णं पुण्यतोयेन पद्मसौगंधिकैः शुभैः । जलजैस्तु समाकीर्णं हंसकारंडवान्वितम्
एवमासीत्सरस्तस्य सुमध्ये काननस्य हि । देवगंधर्वसंबाधैर्मुनिवृंदैरलंकृतम्
किंनरोरगगंधर्वैश्चारणैश्च सुशोभते । तत्राश्चर्यं मया दृष्टं वक्तुं तात न शक्यते
विमानेनापि दिव्येन कलशैरुपशोभते । छत्रदंडपताकाभीराजमानेन सत्तम
सर्वभोगाविलेनापि गीयमानेथ किन्नरैः । गंधर्वैरप्सरोभिश्च शोभमानोथ सुव्रत
स्तूयमानो महासिद्धऋषिभिस्तत्त्ववेदिभिः । रूपेणाप्रतिमो लोके न दृष्टस्तादृशः क्वचित्
सर्वाभरणशोभांगो दिव्यमालाविशोभितः । महारत्नकृतामाला यस्योरसि विराजते
तत्समीपे स्थिता चैका नारी दृष्टा वरानना । हेमहारैश्च मुक्तानां वलयैः कंकणैर्युता
दिव्यवस्त्रैश्च गंधैश्च चंदनैश्चारुलेपनैः । स्तूयमानो गीयमानः पुरुषस्तत्र चागतः
रतिरूपा वरारोहा पीनश्रोणिपयोधरा । सर्वाभरणशोभांगी तादृशी रूपसंपदा
द्वावेतौ तौ मया दृष्टौ विमानेनापि चागतौ । रूपलावण्यमाधुर्यौ सर्वशोभासमाविलौ
समुत्तीर्णौ विमानात्तावागतौ सरसोन्तिके । स्नातौ तात महात्मानौ स्त्रीपुंसौ कमलेक्षणौ
प्रगृह्य तौ महाशस्त्रौ दंपती तु परस्परम् । तादृशौ च शवौ तत्र पतितौ सरसस्तटे
प्रभासे ते तदा तौ तु स्त्रीपुंसौ कमलेक्षणौ । रूपेणापि महाभाग तादृशावेव तौ शवौ
देवरूपोपमस्तात यथा पुंसस्तथा शवः । यथारूपं हि तस्यापि तादृशस्तत्र दृश्यते
यथारूपं तु भार्यायास्तथा शवो द्वितीयकः । स्त्रीशवस्य तु यन्मांसं शस्त्रेणोत्कृत्य सा ततः
भक्षते तस्य मांसानि रक्ताप्लुतानि तानि तु । पुरुषो भक्षते तद्वच्छवमांसं समातुरः
क्षुधया पीड्यमानौ तौ भक्षेते पिशितं तयोः । यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम्