भार्याः पातकरूपाश्च भ्रमंति परितस्तथा । अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः
तैः सार्द्धं सु महाराज महातीर्थैः समं पुनः । मानसं चागतास्ते च पातकाकुलमानसाः
तत्र स्नाता महाराज न जहाति च पातकः । लज्जयाविष्टमनसा मानसो हंसरूपधृक्
संजातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरा । रेवातीरं ततो जग्मुरुत्तरं पापनाशनम्
कुब्जायाः संगमे ते तु सुरसिद्धनिषेविते । स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम
विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरे । यं यं तीर्थं प्रयांत्येते हंसाः स्नानं प्रचक्रमुः
जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छति । तोयानलेन कुब्जायाः पातकं वरमेव च
भस्मावशेषं संजातं तदा मृतास्तु ताः स्त्रियः । ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः
भस्मीभूतास्तु संजाता रेवायाः कुब्जया हताः । तास्तु हता महाभाग या मृतास्तु सरित्तटे
अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तु । सार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम्
चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणु । प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम्
वाराणसी चतुर्थी च चत्वारः पापनाशनाः । ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः
तीर्थान्येतानि दुःखेन तीर्थेषु च महामते । न गतं पातकं घोरं तेषां तु भ्रमतां सुत
कुब्जायाः संगमे शुद्धा विमुक्ताः किल्बिषात्किल । तीर्थानामेव सर्वेषां पुण्यानामिह संमतः
राजा प्रयागः संजात इंद्रस्य पुरतः किल । तावद्गर्जंतु तीर्थानि यावद्रेवा न दृश्यते
ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिता । कपिलासंगमे पुण्ये रेवायाः संगमे तथा
मेघनादसमायोगे तथा चैवोरुसंगमे । महापुण्या महाधन्या रेवा सर्वत्रदुर्लभा
सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसंगमे । दुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः
विटंकासंगमे पुण्या श्रीकंठे मंगलेश्वरे । सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला
तीर्थमाता महादेवी अघराशिविनाशिनी । उभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः
अश्वमेधफलं भुंक्ते स्नानेनैकेन मानवः । एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम्
सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम् । एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे द्विनवतितमोऽध्यायः
कुंजल उवाच- किं विज्वल त्वया दृष्टमपूर्वं भ्रमता महीम् । आश्चर्येण समायुक्तं तन्मे कथय सुव्रत
इतः प्रयासि कं देशमाहारार्थं तु सोद्यमी । यद्य दृष्टं त्वया चित्रं समाख्याहि सुतोत्तम
विज्वल उवाच- अस्ति मेरुगिरेः पृष्ठे आनंदं नाम काननम् । दिव्यवृक्षैः समाकीर्णंफ लपुष्पमयैः सदा
देववृंदैः समाकीर्णं मुनिसिद्धसमन्वितम् । अप्सरोभिः सुरूपाभिर्गंधर्वैः किन्नरोरगैः
वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा । आनंदकाननं पुण्यं दिव्यभावैः प्रभासते
विमानैः कोटिसंख्याभिर्हंसकुंदेंदुसन्निभैः । गीतकोलाहलैः रम्यैर्मेघध्वनिनिनादितम्
षट्पदानां निनादेन सर्वत्र मधुरायते । चंदनैश्चूतवृक्षैश्च चंपकैः पुष्पितैर्वृतम्