विदुरेणोक्तमात्रस्तु चंद्रशर्मा द्विजाधमः । आचष्टे सर्वमेवापि यथापूर्वकृतं स्वकम्
पातकं च महाघोरं वसता च गुरोर्गृहे । महामोहगतेनापि क्रोधेनाकुलितेन च
गुरोर्घातः कृतः पूर्वं तेन दग्धोस्मि सांप्रतम् । चंद्रशर्मा च वृत्तांतमुक्त्वा सर्वमपृच्छत
भवान्को हि सुदुःखात्मा वृक्षच्छायां समाश्रितः । विदुरेण समासेन आत्मपापं निवेदितम्
अथ कश्चिद्द्विजः प्राप्तस्तृतीयः श्रमकर्षितः । वेदशर्मेति वै नाम बहुपातकसंचयः
द्वाभ्यामपि सुसंपृष्टः को भवान्दुःखिताकृतिः । कस्माद्भ्रमसि वै पृथ्वीं वद भावं त्वमात्मनः
वेदशर्मा ततः सर्वमात्मचेष्टितमेव च । कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम्
धिक्कृतः सर्वलोकैश्च अन्यैः स्वजनबांधवैः । तेन पापेन संलिप्तो भ्रमाम्येवं महीमिमाम्
वंजुलो नाम वैश्योथ सुरापायी समागतः । स गोघ्नश्च विशेषेण तैश्च पृष्टो यथा पुरा
तेन आवेदितं सर्वं पातकं यत्पुराकृतम् । तैराकर्णितमन्यैश्च सर्वं तस्यप्रभाषितम्
एवं चत्वारःपापिष्ठा एकस्थानं समागताः । कः कस्यापि न संपर्कं भोजनाच्छादनेन च
करोति च महाभाग वार्तां चक्रुः परस्परम् । न विशंत्यासने चैके न स्वपंत्येकसंस्तरे
एवं दुःखसमाविष्टा नानातीर्थेषु वै गताः । तेषां तु पापका घोरा न नश्यंति च नंदन
सामर्थ्यं नास्ति तीर्थानां महापातकनाशने । विदुराद्यास्ततस्ते तु गताः कालंजरं गिरिम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे एकनवतितमोऽध्यायः
कुंजल उवाच- कालंजरं समासाद्य निवसंति सुदुःखिताः । महापापैस्तु संदग्धा हाहाभूता विचेतनाः
तत्र कश्चित्समायातःसिद्धश्चैव महायशाः । तेन पृष्टाः सुदुःखार्ता भवंतः केन दुःखिताः
स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः । तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक्
सिद्ध उवाच- अमासोमसमायोगे प्रयागः पुष्करश्च यः । अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका
गच्छंतु तत्र वै यूयं चत्वारः पातकाविलाः । गंगांभसि यदा स्नातास्तदा मुक्ता भविष्यथ
पातकेभ्यो न संदेहो निर्मलत्वं गमिष्यथ । आदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः
कालंजरात्ततो जग्मुः सत्वरं पापपीडिताः । वाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः
प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तम । अमासोमं सुसंप्राप्य जग्मुस्ते च महापुरीम्
विदुरश्चंद्रशर्मा च वेदशर्मा तृतीयकः । वैश्यो वंजुलकश्चैव सुरापः पापचेतनः
तस्मिन्पर्वणि संप्राप्ते स्नाता गंगांभसि द्विज । स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः
ब्रह्महत्या गुरुहत्या सुरापानादि पातकैः । लिप्तानि तानि तीर्थानि परिभ्रमंति मेदिनीम्
पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः । वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम
कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः । सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः
कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम् । सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः
यं यं तीर्थं प्रयांत्येते सर्वे तीर्था द्विजोत्तम । हंसरूपेण वै यांति तैः सार्द्धं तु सुदुःखिताः