इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे जांबवततीर्थमाहात्म्यंनाम पंचाशदधिकशततमोऽध्यायः
साभ्रमत्यास्तटे गुप्तं तीर्थं परमपावनम् । खङ्गधारमिति ख्यातं कलौ गुप्तं भविष्यति
यत्र प्रसंगतः स्नात्वा पीत्वा वापो यदृच्छया । सर्वपापविनिर्मुक्तो रुद्रलोके महीयते
यत्र साभ्रमती पुण्या कश्यपानुगता सती । रुद्रेण हि जटाजूटे धृता पातालगामिनः
खङ्गधारेति वै नाम्ना रुद्रस्तत्रैव संस्थितः । यत्र स्नात्वा दिवं याताः पापिनोऽपि सुरेश्वरि
अत्रैवोदाहरंतीममितिहासं पुरातनम् । किरातेन कृतं यच्च व्रतं परमदुष्करम्
पार्वत्युवाच। किं नाम वै किरातोऽभूत्किं तेन व्रतमाहितम् । तत्सर्वं श्रोतुमिच्छामि यथातथ्येन कथ्यताम्
नह्यन्यो विद्यते लोके त्वां विना वदतां वरः । तस्मात्कथय भो देव सर्वं शुश्रूषणे हितम्
महादेव उवाच। आसीत्पुरा महारौद्रश्चंडो नाम दुरात्मवान् । क्रूरः शठो नैष्कृतिको भूतानां च भयावहः
जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं ततः । भल्लैर्मृगान्श्वापदांश्च कृष्णसारान्सशल्लकान्
खगान्नानाविधांश्चैव विध्वा कांश्चित्प्रपातयेत् । पक्षिणो घातयन्क्रुद्धो बर्हिणश्च विशेषतः
लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः । भार्या तथाविधा तस्य पुंश्चली च महामया
एवं विहरतस्तस्य बहुकालो व्यवर्त्तत । एकदा निशि पापीयान्श्रीवृक्षोपरि संस्थितः
कोलं हंतुं धनुःपाणिः शरं संयोज्य कार्मुके । एवं निशा गता तस्य जाग्रतो निमिषस्य हि । माघमासे सितायां वै चतुर्दश्यां नगात्मजे
श्रीवृक्षपत्राणि बहूनि तत्र संच्छेदयामास रुषान्वितोऽपि । श्रीवृक्षमूले परिवर्त्तमानं लिगं च तस्योपरितानि पेतुः
श्रीवृक्षपर्णानि च दैवयोगात्जातं च सर्वं शिवपूजनं तत्
गंडूषकारिणा तेन स्नपनं च महत्कृतम् । अज्ञानिना च तेनैव पुष्कसेन दुरात्मना
माघमासे सिते पक्षे चतुर्दश्यां विधूदये । पुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः
तस्य भार्या प्रचंडा च आगता तस्य सन्निधौ । निराशा च निराहारा यत्रासौ पुष्कसः स्थितः
न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वा । अशनार्थं च तस्यैव अन्नमादाय भामिनी
तेन दृष्टा प्रचंडा सा आयांती क्रूरलोचना । सा तस्य भार्या नद्यां वै जलमध्ये पपात ह
तावत्तयोक्तश्चंडात्मा एहि शीघ्रं च भक्षय । समानीतं त्वदर्थं च मत्स्यमांसं मयाधुना
कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यते । नाशितं च त्वया मूढ कुटुंबं लंघते तव
एतच्छ्रुत्वा तु वचनं चंडायाश्चंडरूपवान् । शिवरात्र्युपवासेन रात्रौ जागरणेन च
शुद्धांतःकरणो जातः स्नातुं नद्यां शुचिव्रतः । यावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः
शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरि । चंडा प्रकुपिता तं च श्वानं हंतुमुपस्थिता
निवारिता हि चंडेन चंडा प्रकुपिता तदा । न हंतव्यस्त्वया चैष किमनेनाशुभं कृतम्
तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मना । किं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः
पुष्कस उवाच। यच्छुना भक्षितं चान्नं तेनाहं परितोषितः । किमनेन शरीरेण नश्वरेण गतायुषा
ये पुष्यंति शरीरं वै सर्वभावेन भामिनि । मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः