वाराणसी चार्घतीर्थं प्राप्ता राजत्वमुत्तमम्
कुंजल उवाच- अस्ति पंचालदेशेषु विदुरो नाम क्षत्रियः । तेन मोहप्रसंगेन ब्राह्मणो निहतः पुराः
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः । भिक्षार्थमटतेसोऽपि ब्रह्मघ्नोहं समागतः
ब्रह्मघ्नाय सुरापाय भिक्षा चान्नं प्रदीयताम् । गृहेष्वेवं समस्तेषु भ्रमते याचते पुरा
एवं सर्वेषु तीर्थेषु अटित्वैव समागतः । ब्रह्महत्या न तस्यापि प्रयाति द्विजसत्तम
वृक्षच्छायां समाश्रित्यदह्यमानेन चेतसा । संस्थितो विदुरः पापो दुःखशोकसमन्वितः
चंद्रशर्मा ततो विप्रो महामोहेन पीडितः । न्यवसन्मागधे देशे गुरुघातकरश्च सः
स्वजनैर्बंधुवर्गैश्च परित्यक्तो दुरात्मवान् । स हि तत्र समायातो यत्रासौ विदुरः स्थितः
शिखासूत्रविहीनस्तु विप्रलिंगैर्विवर्जितः । तदासौ पृच्छितस्तेन विदुरेण दुरात्मना
भवान्को हि समायातोः दुर्भगो दग्धमानसः । विप्रलिंगविहीनस्तु कस्मात्त्वं भ्रमसे महीम्
विदुरेणोक्तमात्रस्तु चंद्रशर्मा द्विजाधमः । आचष्टे सर्वमेवापि यथापूर्वकृतं स्वकम्
पातकं च महाघोरं वसता च गुरोर्गृहे । महामोहगतेनापि क्रोधेनाकुलितेन च
गुरोर्घातः कृतः पूर्वं तेन दग्धोस्मि सांप्रतम् । चंद्रशर्मा च वृत्तांतमुक्त्वा सर्वमपृच्छत
भवान्को हि सुदुःखात्मा वृक्षच्छायां समाश्रितः । विदुरेण समासेन आत्मपापं निवेदितम्
अथ कश्चिद्द्विजः प्राप्तस्तृतीयः श्रमकर्षितः । वेदशर्मेति वै नाम बहुपातकसंचयः
द्वाभ्यामपि सुसंपृष्टः को भवान्दुःखिताकृतिः । कस्माद्भ्रमसि वै पृथ्वीं वद भावं त्वमात्मनः
वेदशर्मा ततः सर्वमात्मचेष्टितमेव च । कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम्
धिक्कृतः सर्वलोकैश्च अन्यैः स्वजनबांधवैः । तेन पापेन संलिप्तो भ्रमाम्येवं महीमिमाम्
वंजुलो नाम वैश्योथ सुरापायी समागतः । स गोघ्नश्च विशेषेण तैश्च पृष्टो यथा पुरा
तेन आवेदितं सर्वं पातकं यत्पुराकृतम् । तैराकर्णितमन्यैश्च सर्वं तस्यप्रभाषितम्
एवं चत्वारःपापिष्ठा एकस्थानं समागताः । कः कस्यापि न संपर्कं भोजनाच्छादनेन च
करोति च महाभाग वार्तां चक्रुः परस्परम् । न विशंत्यासने चैके न स्वपंत्येकसंस्तरे
एवं दुःखसमाविष्टा नानातीर्थेषु वै गताः । तेषां तु पापका घोरा न नश्यंति च नंदन
सामर्थ्यं नास्ति तीर्थानां महापातकनाशने । विदुराद्यास्ततस्ते तु गताः कालंजरं गिरिम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे एकनवतितमोऽध्यायः
कुंजल उवाच- कालंजरं समासाद्य निवसंति सुदुःखिताः । महापापैस्तु संदग्धा हाहाभूता विचेतनाः
तत्र कश्चित्समायातःसिद्धश्चैव महायशाः । तेन पृष्टाः सुदुःखार्ता भवंतः केन दुःखिताः
स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः । तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक्
सिद्ध उवाच- अमासोमसमायोगे प्रयागः पुष्करश्च यः । अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका
गच्छंतु तत्र वै यूयं चत्वारः पातकाविलाः । गंगांभसि यदा स्नातास्तदा मुक्ता भविष्यथ