नागैर्वृक्षैर्नागसर्पैर्गंधर्वैस्तु सकिन्नरैः । स्नापितो देवराजस्तु वेदमंत्रैः सुसंस्कृतः
मुनिभिः सर्वपापघ्नैस्तस्मिन्काले द्विजोत्तम । शुद्धे तस्मिन्महाभागे सहस्राक्षे महात्मनि
ब्रह्महत्या गता तस्य अगम्यागमनं तथा । ब्रह्महत्या ततो नष्टा अगम्यागमनेन च
पापेन तेन घोरेण सार्द्धमिंद्रस्य भूतले । सुप्रसन्नः सहस्राक्षस्तीर्थेभ्यो हि वरं ददौ
भवंतस्तीर्थराजानो भविष्यथ न संशयः । मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः
सुघोरात्किल्बिषादत्र युष्माभिर्विमलैरहम् । एवं तेभ्यो वरं दत्वा मालवाय वरं ददौ
यस्मात्त्वया मलं मेऽद्य विधृतं श्रमदायकम् । तस्मात्त्वमन्नपानैश्च धनधान्यैरलंकृतः
भविष्यसि न संदेहो मत्प्रसादान्न संशयः । सुदुःकालैर्विना त्वं तु भविष्यसि सुपुण्यवान्
एवं तस्मै वरं दत्वा देवराजः पुरंदरः । क्षेत्राणि सर्वतीर्थानि देशो मालवकस्तथा
आखंडलेन सार्द्धं ते स्वस्थानं प्रतिजग्मिरे । सूत उवाच- तदाप्रभृति चत्वारः प्रयागः पुष्करस्तथा
वाराणसी चार्घतीर्थं प्राप्ता राजत्वमुत्तमम्
कुंजल उवाच- अस्ति पंचालदेशेषु विदुरो नाम क्षत्रियः । तेन मोहप्रसंगेन ब्राह्मणो निहतः पुराः
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः । भिक्षार्थमटतेसोऽपि ब्रह्मघ्नोहं समागतः
ब्रह्मघ्नाय सुरापाय भिक्षा चान्नं प्रदीयताम् । गृहेष्वेवं समस्तेषु भ्रमते याचते पुरा
एवं सर्वेषु तीर्थेषु अटित्वैव समागतः । ब्रह्महत्या न तस्यापि प्रयाति द्विजसत्तम
वृक्षच्छायां समाश्रित्यदह्यमानेन चेतसा । संस्थितो विदुरः पापो दुःखशोकसमन्वितः
चंद्रशर्मा ततो विप्रो महामोहेन पीडितः । न्यवसन्मागधे देशे गुरुघातकरश्च सः
स्वजनैर्बंधुवर्गैश्च परित्यक्तो दुरात्मवान् । स हि तत्र समायातो यत्रासौ विदुरः स्थितः
शिखासूत्रविहीनस्तु विप्रलिंगैर्विवर्जितः । तदासौ पृच्छितस्तेन विदुरेण दुरात्मना
भवान्को हि समायातोः दुर्भगो दग्धमानसः । विप्रलिंगविहीनस्तु कस्मात्त्वं भ्रमसे महीम्
विदुरेणोक्तमात्रस्तु चंद्रशर्मा द्विजाधमः । आचष्टे सर्वमेवापि यथापूर्वकृतं स्वकम्
पातकं च महाघोरं वसता च गुरोर्गृहे । महामोहगतेनापि क्रोधेनाकुलितेन च
गुरोर्घातः कृतः पूर्वं तेन दग्धोस्मि सांप्रतम् । चंद्रशर्मा च वृत्तांतमुक्त्वा सर्वमपृच्छत
भवान्को हि सुदुःखात्मा वृक्षच्छायां समाश्रितः । विदुरेण समासेन आत्मपापं निवेदितम्
अथ कश्चिद्द्विजः प्राप्तस्तृतीयः श्रमकर्षितः । वेदशर्मेति वै नाम बहुपातकसंचयः
द्वाभ्यामपि सुसंपृष्टः को भवान्दुःखिताकृतिः । कस्माद्भ्रमसि वै पृथ्वीं वद भावं त्वमात्मनः
वेदशर्मा ततः सर्वमात्मचेष्टितमेव च । कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम्
धिक्कृतः सर्वलोकैश्च अन्यैः स्वजनबांधवैः । तेन पापेन संलिप्तो भ्रमाम्येवं महीमिमाम्
वंजुलो नाम वैश्योथ सुरापायी समागतः । स गोघ्नश्च विशेषेण तैश्च पृष्टो यथा पुरा
तेन आवेदितं सर्वं पातकं यत्पुराकृतम् । तैराकर्णितमन्यैश्च सर्वं तस्यप्रभाषितम्