भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान् । राजद्रोहान्महापापं बहुपीडाप्रदायकम्
मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम् । देवभेदं तथा चान्यं लिंगभेदमतः परम्
वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम् । आगारदहनं चान्यद्गृहदीपनकं तथा
षोडशैते महापापा अगम्यागमनं तथा । स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात्
एतानि नाशयेत्को वै समर्थस्तीर्थउत्तमः । समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम्
पश्यतां देवतानां च नारदस्य च पश्यतः । ब्रुवंतु सर्वे संचिंत्य विचार्यैवं सुनिश्चितम्
एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना । संमंत्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम्
तीर्थान्यूचुः - श्रूयतामभिधास्यामो देवराज नमोस्तु ते । संति वै सर्वतीर्थानि सर्वपापहराणि च
ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर । महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् । वाराणसी महाभाग समर्था पापनाशिनी
महापातकनाशार्थे चत्वारोमितविक्रमाः । उपपातकनाशार्थं चत्वारोमितविक्रमाः
सृष्टा धात्रा च देवेंद्र पुष्कराद्या महाबलाः । एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः
हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये । च्यवनचरित्रे नवतितमोऽध्यायः
कुंजल उवाच- ब्रह्महत्याभिभूतस्तु सहस्राक्षो यदा पुरा । गौतमस्य प्रियासंगादगम्यागमनं महत्
संजातं पातकं तस्य त्यक्तो देवैश्च ब्राह्मणैः । सहस्राक्षस्तपस्तेपे निरालंबो निराश्रयः
तपोंते देवताः सर्वा ऋषयो यक्षकिन्नराः । देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे
देशं मालवकं नीत्वा देवराजं सुतोत्तम । चक्रे स्नानं महाभाग कुंभैरुदकपूरितैः
स्नापितुं प्रथमं नीतो वाराणस्यां स्वयं ततः । प्रयागे तु सहस्राक्ष अर्घतीर्थे ततः पुनः
पुष्करेण महात्मासौ स्नापितः स्वयमेव हि । ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृंदैर्द्विजोत्तम
नागैर्वृक्षैर्नागसर्पैर्गंधर्वैस्तु सकिन्नरैः । स्नापितो देवराजस्तु वेदमंत्रैः सुसंस्कृतः
मुनिभिः सर्वपापघ्नैस्तस्मिन्काले द्विजोत्तम । शुद्धे तस्मिन्महाभागे सहस्राक्षे महात्मनि
ब्रह्महत्या गता तस्य अगम्यागमनं तथा । ब्रह्महत्या ततो नष्टा अगम्यागमनेन च
पापेन तेन घोरेण सार्द्धमिंद्रस्य भूतले । सुप्रसन्नः सहस्राक्षस्तीर्थेभ्यो हि वरं ददौ
भवंतस्तीर्थराजानो भविष्यथ न संशयः । मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः
सुघोरात्किल्बिषादत्र युष्माभिर्विमलैरहम् । एवं तेभ्यो वरं दत्वा मालवाय वरं ददौ
यस्मात्त्वया मलं मेऽद्य विधृतं श्रमदायकम् । तस्मात्त्वमन्नपानैश्च धनधान्यैरलंकृतः
भविष्यसि न संदेहो मत्प्रसादान्न संशयः । सुदुःकालैर्विना त्वं तु भविष्यसि सुपुण्यवान्
एवं तस्मै वरं दत्वा देवराजः पुरंदरः । क्षेत्राणि सर्वतीर्थानि देशो मालवकस्तथा
आखंडलेन सार्द्धं ते स्वस्थानं प्रतिजग्मिरे । सूत उवाच- तदाप्रभृति चत्वारः प्रयागः पुष्करस्तथा