स्वप्रियं लक्षयित्वा तु ज्ञात्वा पुण्यस्य संभवम् । प्रत्युवाचाथ भर्तारं संगमं मम दर्शय
तव पश्चात्प्रदास्यामि भोजनं पानसंयुतम् । इत्युक्तः प्रियया व्याधः सत्वरेण जगाम ह
संगमो दर्शितस्तेन ततोग्रे पापनाशनः । समुड्डीना महाभाग पक्षिणो लघुविक्रमाः
तया सार्द्धं ययुः सर्वे रेवासंगममुत्तमम् । तेषां तु वीक्षमाणानां पक्षिणां मम पश्यतः
तया हि स्नापितो भर्ता पुनः स्नाता हि सा स्वयम् । दिव्यदेहधरौ चोभौ दिव्यकांतिसमन्वितौ
संजातौ पक्षिणां श्रेष्ठ दिव्यवस्त्रानुलेपनौ । दिव्यमालांबरधरौ दिव्यगंधानुलेपनौ
वैष्णवं यानमासाद्य मुनिगंधर्वपूजितौ । गतौ तौ वैष्णवं लोकं वैष्णवैः परिपूजितौ
स्तूयमानौ महात्मानौ दंपती दृष्टवानहम् । व्रजंतौ स्वर्गमार्गेण कूजंते पक्षिणस्तथा
तीर्थराजं परं दृष्ट्वा हर्षव्यक्ताक्षरैस्तदा । चत्वारः कृष्णहंसास्ते संगमे पापनाशने
स्नात्वा वै भावशुद्धास्ते प्राप्ता उज्ज्वलतां पुनः । स्नात्वा पीत्वा जलं ते तु पुनर्बहिर्विनिर्गताः
तावत्यस्ताः स्त्रियः कृष्णा मृतास्तत्स्नानमात्रतः । क्रंदमाना विचेष्टंत्यो हाहाकार विकंपिताः
यमलोकं गतास्तास्तु तात दृष्टा मया तदा । उड्डीनास्तु ततो हंसाः स्वस्थानं प्रतिजग्मिरे
एवं तात मया दृष्टं प्रत्यक्षं कथितं तव । कृष्णपक्षा महाकाया धार्तराष्ट्रास्तु ताः स्त्रियः
कथयस्व प्रसादेन के भविष्यंति वै पितः । निर्गतान्मानसान्मध्याद्धार्तराष्ट्रान्वदस्व मे
के भविष्यंति ते तात कथय त्वं तु सांप्रतम् । कस्मात्सुकृष्णतां प्राप्ता हंसाः शुद्धाश्च ते पुनः
संजातास्तत्क्षणात्तात कस्मान्मृतास्तु ताः स्त्रियः । एवं मे संशयस्तात संजातो दारुणो हृदि
छेत्तुमर्हसि अद्यैव भवाञ्ज्ञानविचक्षणः । प्रसादसुमुखो भूत्वा प्रणतस्य सदैव मे
एवं संभाष्य पितरं विरराम समुज्ज्वलः । ततः प्रवक्तुमारेभे स शुकः कुंजलाभिधः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे एकोननवतितमोऽध्यायः
सूतउवाच- एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम् । कुंजलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति
कुंजल उवाच- संप्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः । सर्वसंदेहविध्वंसं चरित्रं पापनाशनम्
इंद्रलोके प्रववृते संवादो देव कौतुकः । सभायां तस्य देवस्य इंद्रस्यापि महात्मनः
देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ । समागतं सहस्राक्षः सूर्यतेजःसमप्रभम्
तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः । ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः
बद्धांजलिपुटोभूत्वा प्रणाममकरोत्तदा । आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम्
पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः । कस्माच्चागमनं तेऽद्य कारणं वद सांप्रतम्
इत्युक्तो देवराजेन प्रत्युवाच महामुनिः । भवंतं द्रष्टुमायातः पृथिव्यास्तु पुरंदरः
स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया । देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः
एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा । देवेंद्र उवाच- दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने
किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया । सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः