आहारार्थं प्रगच्छामि भवतश्चात्मनः पितः । पश्यामि कौतुकं तत्र न दृष्टं न श्रुतं पुरा
प्रदेशमृषिगणाकीर्णमप्सरोभिः प्रशोभितम् । बहुकौतुकशोभाढ्यं मंगल्यं मंगलैर्युतम्
बहुपुण्यफलोपेतैर्वनैर्नानाविधैस्ततः । अनेककौतुकभरैर्मनसः परिमोहनम्
तत्र दृष्टं मया तात अपूर्वं मानसांतिके । बहुहंसैः समाकीर्णो हंस एकः समागतः
एवं कृष्णा महाभाग अन्ये तत्र समागताः । सितेतरैश्चंचुपादैरन्यतः शुक्लविग्रहाः
तादृशास्ते च नीला वै अन्ये शुभ्रा महामते । चतस्रस्तत्र वै नार्यो रौद्राकारा विभीषणाः
दंष्ट्राकरालसंक्रूरा ऊर्ध्वकेश्यो भयानकाः । पश्चात्तास्तु समायातास्तस्मिन्सरसि मानसे
कृष्णा हंसास्तु संस्नाता मानसे तात मत्पुरः । विभ्रांताः परितश्चान्ये न स्नातास्तत्र मानसे
जहसुस्ताः स्त्रियस्तात हास्यैरट्टाट्टदारुणैः । तस्मात्सराद्विनिष्क्रांतो हंस एको महातनुः
पश्चात्त्रयो विनिष्क्रांतास्तैश्चाहं समुपेक्षितः । याता आकाशमार्गेण विवदंतः परस्परम्
तास्तु स्त्रियो महाभीमाः समंतात्परिबभ्रमुः । विंध्यस्य शिखरे पुण्ये वृक्षच्छायासुपक्षिणः
निषण्णास्तत्र ते सर्वे दग्धा दुःखैः सुदारुणैः । तेषां सुवीक्षमाणानां भिल्ल एकः समागतः
मृगान्स पीडयित्वा तु बाणपाणिर्धनुर्द्धरः । शिलातलं समाश्रित्य निषसाद सुखेन वै
पश्चाद्भिल्ली समायाता अन्नमादाय सोदकम् । स्वं प्रियं वीक्षते राज्ञा मुदितैर्लक्षणैर्युतम्
अन्यादृशं समावीक्ष्य स्वकांतं तेजसावृतम् । दिव्यतेजः समाक्रांतं यथा सूर्यं दिविस्थितम्
नरमन्यं परिज्ञाय तं परित्यज्य सा ययौ । व्याध उवाच- एह्येहि त्वं प्रिये चात्र कस्मान्मां त्वं न पश्यसि
क्षुधया पीड्यमानोहं त्वामहं चावलोकये । तस्य वाक्यं समाकर्ण्य शीघ्रं व्याधी समागता
भर्तुः पार्श्वं समासाद्य विस्मिता साभवत्तदा । कोयं तेजः समाचारो देवोयं मां समाह्वयेत्
तमुवाच ततो व्याधी भर्तारं दीप्ततेजसम् । अत्र किं ते कृतं वीर भवान्को दिव्यलक्षणः
सूत उवाच- एवमाभाषितो व्याध्या व्याधः प्रियामभाषत । अहं ते वल्लभः कांते भवती च मम प्रिया
कस्मात्त्वं मां न जानासि कथं शंका प्रवर्तते । क्षुधया पीड्यमानेन पयश्चान्नं प्रतीक्ष्यते
व्याध्युवाच- बर्बरः कृष्णवर्णश्च रक्ताक्षः कृष्णकंचुकः । ईदृशश्चास्ति मे भर्ता सर्वसत्वभयंकरः
भवान्को दिव्यदेहस्तु प्रियेत्युक्त्वा समाह्वयेत् । एष मे संशयो जातो वद सत्यं ममाग्रतः
कुलं नाम स्वकं ग्रामं क्रीडां लिगं सुतं सुताम् । समाचष्ट प्रियाग्रे तु तस्याः प्रत्यय हेतवे
प्रत्युवाच स्वभर्तारं सा व्याधी हृष्टमानसा । कस्मात्ते ईदृशः कायः श्वेतकंचुकधारकः
कथं जातः समाचक्ष्व ममाश्चर्यं प्रवर्तते । एवं संपृच्छमानस्तु भार्यया मृगघातकः
सूत उवाच- प्रत्युवाच ततः श्रुत्वा तां प्रियां प्रश्रयान्विताम् । नर्मदा उत्तरे कूले संगमश्चास्ति सुव्रते
आतपेनाकुलो जीवो मम जातोति सुप्रिये । अस्मिन्वै संगमे कांते श्रमश्रांतो हि सत्वरः
गतः स्नात्वा जलं पीत्वा पश्चाच्चाहं समागतः । तदाप्रभृति मे काय ईदृशस्तेजसावृतः
संजातो वस्त्रसंयुक्तः कंचुकः शुभ्रतां गतः । पूर्वोक्तलिंगसंस्थानैः कुलैः स्थानेन वै तथा