कथयस्व प्रसादेन किमत्र तव कारणम् । सर्वमेव प्रसादेन प्रब्रवीहि महामते
देवमेवं विजानामि तेजसा इंगितैस्तव । ज्ञानहीना जगन्नाथ न जाने रूपनामनी
किं ब्रह्मा वा भवान्विष्णुः किं वा शंकर एव हि । एवमुक्त्वा प्रणम्यैवं दंडवद्धरणीं गता
तामुवाच जगन्नाथः प्रणतां राजनंदिनीम् । श्रीभगवानुवाच- त्रयाणामपि देवानामंतरं नास्ति शोभने
ब्रह्मा समर्चितो येन शंकरो वा वरानने । तेनाहमर्चितो नित्यं नात्र कार्या विचारणा
एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान् । अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ
अहं देवो हृषीकेशः कृपया तव चागतः । स्तवेनानेन पुण्येन व्रतेन नियमेन च
संजाता कल्मषैर्हीना वरं वरय शोभने । दिव्यादेव्युवाच- विजयस्व हृषीकेश कृष्णक्लेशापहारक
नमामि चरणद्वंद्वं मामुद्धर सुरेश्वर । वरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे
आत्मपादयुगस्यापि भक्तिं देहि ममानघ । दर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम्
दासत्वं देहि वैकुंठ यदि तुष्टो जनार्दन । श्रीभगवानुवाच- एवमस्तु महाभागे गच्छ निर्धूतकल्मषा
वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा । गच्छ गच्छ परं लोकं प्रसादान्मम सांप्रतम्
एवमुक्ते ततो वाक्ये माधवेन महात्मना । दिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा
पश्यतां सर्वलोकानां दिव्याभरणभूषिता । दिव्यमालान्विता सा च दिव्यहारविलंबिनी
गता सा वैष्णवं लोकं दाहप्रलयवर्जितम् । पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः
तत्सर्वं कथयामास पितरं प्रति सत्तमः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रेऽष्टाशीतितमोऽध्यायः
विष्णुरुवाच- कुंजलस्तु सुतं वाक्यं समुज्ज्वलमथाब्रवीत् । भवान्कथय भोः पुत्र किमपूर्वं तु दृष्टवान्
तन्मे कथय सुप्रीतः श्रोतुकामोऽस्मि सांप्रतम् । एवमादिश्य तं पुत्रं विरराम स कुंजलः
पितरं प्रत्युवाचाथ विनयावनतस्सुतः । समुज्ज्वल उवाच- हिमवंतं नगश्रेष्ठं देववृंदसमन्वितम्
आहारार्थं प्रगच्छामि भवतश्चात्मनः पितः । पश्यामि कौतुकं तत्र न दृष्टं न श्रुतं पुरा
प्रदेशमृषिगणाकीर्णमप्सरोभिः प्रशोभितम् । बहुकौतुकशोभाढ्यं मंगल्यं मंगलैर्युतम्
बहुपुण्यफलोपेतैर्वनैर्नानाविधैस्ततः । अनेककौतुकभरैर्मनसः परिमोहनम्
तत्र दृष्टं मया तात अपूर्वं मानसांतिके । बहुहंसैः समाकीर्णो हंस एकः समागतः
एवं कृष्णा महाभाग अन्ये तत्र समागताः । सितेतरैश्चंचुपादैरन्यतः शुक्लविग्रहाः
तादृशास्ते च नीला वै अन्ये शुभ्रा महामते । चतस्रस्तत्र वै नार्यो रौद्राकारा विभीषणाः
दंष्ट्राकरालसंक्रूरा ऊर्ध्वकेश्यो भयानकाः । पश्चात्तास्तु समायातास्तस्मिन्सरसि मानसे
कृष्णा हंसास्तु संस्नाता मानसे तात मत्पुरः । विभ्रांताः परितश्चान्ये न स्नातास्तत्र मानसे
जहसुस्ताः स्त्रियस्तात हास्यैरट्टाट्टदारुणैः । तस्मात्सराद्विनिष्क्रांतो हंस एको महातनुः
पश्चात्त्रयो विनिष्क्रांतास्तैश्चाहं समुपेक्षितः । याता आकाशमार्गेण विवदंतः परस्परम्