किन्नरास्तत्र गायंति गंधर्वाः सुस्वरैर्नृप । अप्सरोभिः समाकीर्णं देववृंदैरुपावृतम्
सिद्धचारणसंघुष्टं मुनिवृंदैरलंकृतम् । नानापक्षिनिनादैश्च सर्वत्र परिनादितम्
एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः । सुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति
रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत् । का त्वं भवसि कल्याणि कस्माद्रोदिषि सांप्रतम्
कमाश्रिता महाभागे केन ते विप्रियं कृतम् । समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम्
दिव्यादेव्युवाच- विपाको हि महाभाग कर्मणां मम सांप्रतम् । इह तिष्ठामि दुःखेन वैधव्येन समन्विता
भवान्को हि महाभाग कृपया मम पीडितः । पक्षिरूपधरो वत्स सोत्सवं परिभाषते
एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया । अहं पक्षी महाभागे कृपया तव पीडितः
पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान् । रुदमानां महालापैर्भवतीं दृष्टवानिह
ततः पृच्छाम्यहं देवि वद मे कारणं त्विह । पितुर्गेहे यथावृत्तमात्मवृत्तांतमेव हि
तया निवेदितं सर्वं यथासंख्येन दुःखदम् । समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः
तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम् । यथा विवाहकाले ते भर्तारो मरणं गताः
स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाः । एतत्ते चेष्टितं सर्वं मया पितरि भाषितम्
अन्यजन्मकृतंकर्मतव पापं सुलोचने । मम पित्रा ममाग्रे तु कृपया परिभाषितम्
तेन दोषेण संपुष्टा लिप्ता जाता वरानने । एतावत्कारणं सर्वं तातेन परिभाषितम्
पूर्वकर्मविपाकं तु भुंक्ष्व त्वं च समाश्वस । एवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत्
प्रत्युवाच महात्मानं ब्रुवंतं पक्षिणं पुनः । प्रणता दीनया वाचा कुरु पक्षिन्कृपां मम
कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम् । प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम्
येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषा । प्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः
उज्ज्वल उवाच- तवार्थं तु महाभागे पितरं पृष्टवानहम् । समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम्
तत्त्वं कुरु महाभागे सर्वपातकशोधनम् । ध्यायस्व हि हृषीकेशं शतनामजपस्व च
भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम् । अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम्
समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम् । ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः
विष्णुरुवाच- तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वने । सर्वद्वंद्वविनिर्मुक्ता संजाता तपसि स्थिता
व्रतं चक्रे जिताहारा निराधारा सुदुःखिता । कामक्रोधविहीना सा वर्गं संयम्य नित्यशः
इंद्रियाणां महाराज महामोहं निरस्य सा । अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः
तस्यै वरं दातुकामश्चायातो वरनायकः । तस्यै संदर्शयामास स्वरूपं वरदः प्रभुः
सूत उवाच- इंद्रनीलघनश्यामं शंखचक्रगदाधरम् । सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम्
बद्धांजलिपुटा भूत्वा वेपमाना निराश्रया । उवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम्
तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि । दिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः