पुरुषं पुष्कराक्षं तु वाराहं धरणीधरम् । प्रद्युम्नं कामपालं च व्यासं व्यालं महेश्वरम्
सर्वसौख्यं महासौख्यं मोक्षं च परमेश्वरम् । योगरूपं महाज्ञानं योगिनां गतिदं प्रियम्
मुरारिं लोकपालं तं पद्महस्तं गदाधरम् । गुहावासं सर्ववासं पुण्यवासं महाभुजम्
वृंदानाथं बृहत्कायं पावनं पापनाशनम् । गोपीनाथं गोपसखं गोपालं गोगणाश्रयम्
परात्मानं पराधीशं कपिलं कार्यमानुषम् । नमामि निश्चलं नित्यं मनोवाक्कायकर्मभिः
नाम्नां शतेनापि सुपुण्यकर्ता यः स्तौति कृष्णं मनसा स्थिरेण । स याति लोकं मधुसूदनस्य विहाय लोकानिह पुण्यपूतः
नाम्नां शतं महापुण्यं सर्वपातकशोधनम् । जपेदनन्यमनसा ध्यायेद्ध्यानसमन्वितम्
नित्यमेव नरः पुण्यैर्गंगास्नानफलं लभेत् । तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत्
त्रिकालं च जपेन्मर्त्यो नियतो नियमे स्थितः । अश्वमेधफलं तस्य जायते नात्र संशयः
एकादश्यामुपोष्यैव पुरतो माधवस्य यः । जागरे प्रजपेन्मर्त्यस्तस्य पुण्यं वदाम्यहम्
पुंडरीकस्य यज्ञस्य फलमाप्नोति मानवः । तुलसीसंनिधौ स्थित्वा मनसा यो जपेन्नरः
राजसूयफलं भुंक्ते वर्षेणापि च मानवः । शालग्रामशिला यत्र यत्र द्वारावती शिला
उभयोः संनिधौ जाप्यं कर्तव्यं सुखमिच्छता । बहुसौख्यं प्रभुक्त्वैव कुलानां शतमेव च
एकेन चाधिकं मर्त्य आत्मना सह तारयेत् । कार्तिके स्नानकर्ता यः पूजयेन्मधुसूदनम्
यः पठेत्प्रयतः स्तोत्रं प्रयाति परमां गतिम् । माघस्नायी हरिं पूज्य भक्त्या च मधुसूदनम्
ध्यायेच्चैव हृषीकेशं जपेद्वाथ शृणोति वा । सुरापानादिकं पापं विहाय परमं पदम्
विना विघ्नं नरः पुत्र संप्रयाति जनार्दनम् । श्राद्धकाले हि यो मर्त्यो विप्राणां भुंजतां पुरः
यो जपेच्च शतं नाम्नां स्तोत्रं पातकनाशनम् । पितरस्तुष्टिमायांति तृप्ता यांति परां गतिं
ब्राह्मणो वेदविद्वान्स्यात्क्षत्रियो विंदते महीम् । धनऋद्धिं प्रभुंजीत वैश्यो जपति यः सदा
शूद्रः सुःखं प्रभुंक्ते च ब्राह्मणत्वं च गच्छति । प्राप्य जन्मांतरं वत्स वेदविद्यां प्रविंदति
सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः । केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे सप्ताशीतितमोऽध्यायः
कुंजल उवाच- व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक । मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम्
एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत् । प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम्
इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय । अशून्यशयनं नाम व्रतराजं वदस्व ताम्
समुद्धर महापापाद्राजकन्यां यशस्विनीम् । त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम्
गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः । श्रीविष्णुरुवाच- उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुंजलेन हि
प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः । जगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः
तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम् । नानारत्नमयैस्तुंगैः शिखरैरुपशोभितम्
नानाप्रवाहसंपूर्णैरुदकैरुज्ज्वलैर्नृप । नद्यः संति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे