स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा । कस्मै प्रदीयते कन्या सुवराय महात्मने
इति चिंतापरो भूत्वा समालोक्य नरोत्तमः । रूपदेशस्य राजानं समालोक्य महीपतिः
चित्रसेनं महात्मानं समाहूय नरोत्तमः । कन्यां ददौ महात्मासौ चित्रसेनाय धीमते
तस्या विवाहकाले तु संप्राप्ते समये नृप । मृतोसौ चित्रसेनस्तु कालधर्मेण वै किल
दिवोदासस्तु धर्मात्मा चिंतयामास भूपतिः । सुब्राह्मणान्समाहूय पप्रच्छ नृपनंदनः
अस्या विवाहकाले तु चित्रसेनो दिवं गतः । अस्यास्तु कीदृशं कर्म भविष्यति वदंतु मे
ब्राह्मणा ऊचुः- विवाहो दृश्यते राजन्कन्यायास्तु विधानतः । पतिर्मृत्युं प्रयात्यस्या नोचेत्संगं करोति च
महाधिव्याधिना ग्रस्तस्त्यागं कृत्वा प्रयाति च । प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते
अनुद्वाहितायाः कन्याया उद्वाहः क्रियते बुधैः । न स्याद्रजस्वला यावदन्यः पतिर्विधीयते
विवाहं तु विधानेन पिता कुर्यान्न संशयः । एवं राजन्समादिष्टं धर्मशास्त्रं बुधैर्जनैः
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः । दिवोदासस्तु धर्मात्मा द्विजवाक्यप्रणोदितः
विवाहार्थं महाराज उद्यमं कृतवान्नृप । पुनर्दत्ता तु दानेन दिव्यादेवी द्विजोत्तम
रूपसेनाय पुण्याय तस्मै राज्ञे महात्मने । मृत्युधर्मं गतो राजा विवाहे तु महीपतिः
यदा यदा महाभाग दिव्यादेव्याश्च भूपतिः । भर्ता च म्रियते काले प्राप्ते लग्नस्य सर्वदा
एकविंशतिभर्तारः काले काले मृताः पितः । ततो राजा महादुःखी संजातः ख्यातविक्रमः
समालोच्य समाहूय समामंत्र्य स मंत्रिभिः । स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः
प्लक्षद्वीपस्य राजानः समाहूता महात्मना । स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः
तस्यास्तु रूपसंमुग्धा राजानो मृत्युनोदिताः । संग्रामं चक्रिरे मूढास्ते मृताः समरांगणे
एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम् । दिव्यादेवी सुदुःखार्ता गता सा वनकंदरम्
रुरोद करुणं बाला दिव्यादेवी मनस्विनी । एवं तात मया दृष्टमपूर्वं तत्र वै तदा
तन्मे सुविस्तरं तात तस्याः कथय कारणम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे। च्यवनोपाख्याने पंचाशीतितमोऽध्यायः
कुंजल उवाच- व्रतभेदान्प्रवक्ष्यामि यैर्यैश्चाराधितो हरिः । जया च विजया चैव जयंती पापनाशिनी
त्रिस्पृशा वंजुली चान्या तिलदग्धा तथापरा । अखंडाचारकन्या च मनोरथा सुपुत्रक
एकादश्यास्तु भेदाश्च संति पुत्र अनेकधा । अशून्यशयनं चान्यज्जन्माष्टमी महाव्रतम्
एतैर्व्रतैर्महापुण्यैः पापं दूरं प्रयाति च । प्राणिनां नात्र संदेहः सत्यं सत्यं वदाम्यहम्
कुंजल उवाच- स्तोत्रं तस्य प्रवक्ष्यामि पापराशिविनाशनम् । सुपुत्रशतनामाख्यं नराणां गतिदायकम्
तस्य देवस्य कृष्णस्य शतनामाख्यमुत्तमम् । संप्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुतोत्तम
विष्णोर्नामशतस्यापि ऋषिं छंदो वदाम्यहम् । देवं चैव महाभाग सर्वपापविशोधनम्
विष्णोर्नामशतस्यापि ऋषिर्ब्रह्मा प्रकीर्तितः । ॐकारो देवता प्रोक्तश्छंदोनुष्टुप्तथैव च