ततस्तासां ददौ शापं तेन दोषेण वै हरः । नष्टसंज्ञा स्वलोकाच्च गावो यास्यथ मेदिनीम्
गावः शप्ता भगवता संप्रसाद्य पुनर्हरम् । प्राप्स्यामहे पुनर्लोकं इति देवं ययाचिरे
यदा साभ्रमती तीर्थे ब्रह्मवल्ली समीपतः । खंडसंज्ञह्रदे स्नात्वा स्वर्गं वै प्राप्स्यथ ध्रुवम्
ततस्तस्मिन्ह्रदे स्नात्वा गावो गोपतिना सह । स्वर्गं गता शुद्धतमा महादेवसमीपतः
गोह्रदे तु नरः स्नात्वा कृत्वा वै पितृतर्पणम् । गवां लोकमवाप्नोति दाहप्रलयवर्जितम्
तत्र स्थित्वा निराहारो गोपिंडं च ददाति वै । स नरः सुखमेधेत यावदिंद्राश्चतुर्दश
गवांकोटिप्रदानेन यत्फलं प्राप्यते ध्रुवम् । तत्फलं समवाप्नोति खंडतीर्थे न संशयः
गृहीत्वा वृषमूत्रं च तीर्थं यः पिबते नरः । तत्क्षणादेव शुद्धिः स्यात्खंडतीर्थे न संशयः
खंडतीर्थात्परं तीर्थं न भूतं न भविष्यति । ये गच्छंति सुरश्रेष्ठ ते नराः पुण्यभागिनः
तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत् । वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः
पूजनाद्वै न संदेहो गोलोके तु वसेच्चिरम् । तत्र गत्वा विशेषेण सौवर्णी गां ददंति ये
ते नरा भुंजते सौख्यं यावदिंद्राश्चतुर्दश । दशधेनुं ततः कृत्वा यो ददाति द्विजातये
खंडतीर्थे सुरश्रेष्ठे तदनंतफलं स्मृतम् । तत्र गत्वा तु कर्त्तव्यं पिप्पलारोपणं बुधैः
तत्कृते सति देवेशि पितृलोकं स गच्छति । पंच वामलकीर्दिव्या ये कुर्वंति प्ररोपणम्
इहलोके सुखं भुक्त्वा हरिलोकं व्रजंति ते
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे खंडतीर्थंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः
महादेवउवाच। जंबूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम् । कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम्
यत्र जांबवता पूर्वं दशांगे पर्वतोत्तमे । स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम्
रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः । तदा जांबवता दिक्षु भेरीघोषैः प्रघोषितम्
जितं वै रामचंद्रेण रावणो निहतो रणे । लब्ध्वा सीतेति संघुष्य स्नातं तीर्थवरे शुभे
स्थापितं तत्र लिंगं तु स्वनाम्ना तु सुरेश्वरि । तत्र स्नात्वा नरः सद्यः स्मृत्वा रामं सहानुजम्
जाबवंतेश्वरं स्नात्वा रुद्रलोके महीयते । यत्रयत्र हि भो देवि श्रीरामस्मरणं कृतम् । भवबंधविमोक्षो हि दृश्यते स चराचरे
अहं रामस्तु विज्ञेयो रामो वै रुद्र एव च । एवं ज्ञात्वा तु ते देवि न भेदो वर्तते क्वचित्
रामरामेति रामेति मनसा ये जपंति च । तेषां सर्वार्थसिद्धिश्च भविष्यति युगेयुगे
अहं हि सर्वदा देवि श्रीरामस्मरणं चरे । यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचित्
काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम् । स्मरामि सततं देवि भक्त्या च विधिपूर्वकम्
जांबवता तदा पूर्वं स्मृत्वा रामं सुशोभनम् । जांबवंतमिति ख्यातं प्रस्थाप्य जगतां गुरुम्
तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम् । शिवलोकमवाप्नोति यावदिंद्राश्चतुर्दश
अत्र हि स्नानमात्रेण यथा जांबवतो बलम् । तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः
अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै । फलं सहस्रगुणितं जांबवंतेश दर्शनात्