राजोवाच यदि त्वं देवदेवेश तुष्टोसि मधुसूदन । दासत्वं देहि सततमात्मनश्च जगत्पते
विष्णुरुवाच- एवमस्तु महाभाग मम भक्तो न संशयः । लोके मम महाराज स्थातव्यमनया सह
एवमुक्तो महाराजो ययातिः पृथिवीपतिः । प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम्
निवसत्येष भूपालो वैष्णवं लोकमुत्तमम्
सुकर्मोवाच- एतत्ते सर्वमाख्यातं चरित्रं पापनाशनम् । पुत्राणां तारकं दिव्यं बहुपुण्यप्रदायकम्
प्रत्यक्षं दृश्यते लोके ययातिचरितं श्रुतम् । पूरुणाप्तं महद्राज्यं दुर्गतिं गतवांस्तुरुः
पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः । पुत्राणां तारकं पुण्यं यशस्यं धनधान्यदम्
शापयुक्ताविमौ चोभौ तुरुश्च यदुरेव च । पितृमातृसमं नास्ति अभीष्टफलदायकम्
साभिलाषेण भावेन पिता पुत्रं समाह्वयेत् । माता च पुत्रपुत्रेति तस्य पुण्यफलं शृणु
समाहूतो यथा पुत्रः प्रयाति मातरं प्रति । यो याति हर्षसंयुक्तो गंगास्नानफलं लभेत्
पादप्रक्षालनं यस्तु कुरुते च महायशाः । सर्वतीर्थफलं भुंक्ते प्रसादात्तु तयोः सुतः
अंगसंवाहनाच्चान्यदश्वमेधफलं लभेत् । भोजनाच्छादनस्नानैर्गुरुं यः पोषयेत्सुतः
पृथ्वीदानसमं पुण्यं तत्पुत्रे हि प्रजायते । सर्वतीर्थमयी गंगा तथा माता न संशयः
बहुपुण्यमयः सिंधुर्यथा लोके प्रतिष्ठितः । अस्मिल्लोँके पिता तद्वत्पुराणकवयो विदुः
सुकर्मोवाच- भ्रंशते क्रोशते यस्तु पितरं मातरं पुनः । स पुत्रो नरकं याति रौरवाख्यं न संशयः
मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत् । स पुत्रो नरकं याति वेदनां प्राप्नुयाद्ध्रुवम्
कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः । निष्कृतिर्नैव दृष्टा वै पुराणैः कविभिः कदा
एवंज्ञात्वाह्यहंविप्रपूजयामिदिनेदिने । मातरं पितरं नित्यं भक्त्या नमितकंधरः
कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम । तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल
तेन मे परमं ज्ञानं संजातं गतिदायकम् । एतयोश्च प्रसादेन संसारे परिवर्तते
यच्चकिंचित्प्रकुर्वंति मानवा भुवि संस्थिताः । गृहस्थस्तदहं जाने यच्च स्वर्गे प्रवर्तते
नागानां च इहस्थोपि चारं जानामि पिप्पल । एतयोश्च प्रसादाच्च त्रैलोक्यं मम वश्यताम्
गतं विद्याधरश्रेष्ठ भवानर्चतु माधवम् । विष्णुरुवाच- एवं संचोदितस्तेन पिप्पलो हि स्वकर्मणा
आनम्य तं द्विजश्रेष्ठं लज्जितोऽपि दिवं ययौ । सुकर्मासोऽपि धर्मात्मा गुरुं शुश्रूषते नृप
एतत्ते सर्वमाख्यातं पितृतीर्थानुगं मया । अन्यत्किं ते प्रवक्ष्यामि वद वेन महामते
इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने मातापितृतीर्थमाहात्म्यवर्णनंनाम चतुरशीतितमोऽध्यायः
वेन उवाच- भगवन्देवदेवेश प्रसादाच्च मम त्वया । भार्यातीर्थं समाख्यातं पितृतीर्थमनुत्तमम्
मातृतीर्थं हृषीकेश बहुपुण्यप्रदायकम् । प्रसादसुमुखो भूत्वा गुरुतीर्थं वदस्व मे
श्रीभगवानुवाच- कथयिष्याम्यहं राजन्गुरुतीर्थमनुत्तमम् । सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम्
शिष्याणां परमं पुण्यं धर्मरूपं सनातनम् । परं तीर्थं परं ज्ञानं प्रत्यक्षफलदायकम्