वैकुंठं ददृशे राजा मोक्षस्थानमनुत्तमम् । देववृंदैः समाकीर्णं ययातिर्नहुषात्मजः
प्रविवेश पुरं रम्यं सर्वदाहविवर्जितम् । ददृशे सर्वक्लेशघ्नं नारायणमनामयम्
विमानैरुपशोभंतं सर्वाभरणशालिनम् । पीतवासं जगन्नाथं श्रीवत्सांकं महाद्युतिम्
वैनतेयसमारूढं श्रियायुक्तं परात्परम् । सर्वेषां देवलोकानां यो गतिः परमेश्वरः
परमानंदरूपेण कैवल्येन विराजते । सेव्यमानं महालोकैःसुपुण्यैर्वैष्णवैर्हरिम्
देववृंदैः समाकीर्णं गंधर्वगणसेवितम् । अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिम्
नारायणं ननामाथ स्वपत्न्या सह भूपतिः । प्रणेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम्
गता ये वैष्णवाः सर्वे सह राज्ञा महामते । पादांबुजद्वयं तस्य नेमुर्भक्त्या महामते
प्रणमंतं महात्मानं राजानं दीप्ततेजसम् । तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत
वरं वरय राजेंद्र यत्ते मनसि वर्तते । तत्ते ददाम्यसंदेहं मद्भक्तोसि महामते
राजोवाच यदि त्वं देवदेवेश तुष्टोसि मधुसूदन । दासत्वं देहि सततमात्मनश्च जगत्पते
विष्णुरुवाच- एवमस्तु महाभाग मम भक्तो न संशयः । लोके मम महाराज स्थातव्यमनया सह
एवमुक्तो महाराजो ययातिः पृथिवीपतिः । प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम्
निवसत्येष भूपालो वैष्णवं लोकमुत्तमम्
सुकर्मोवाच- एतत्ते सर्वमाख्यातं चरित्रं पापनाशनम् । पुत्राणां तारकं दिव्यं बहुपुण्यप्रदायकम्
प्रत्यक्षं दृश्यते लोके ययातिचरितं श्रुतम् । पूरुणाप्तं महद्राज्यं दुर्गतिं गतवांस्तुरुः
पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः । पुत्राणां तारकं पुण्यं यशस्यं धनधान्यदम्
शापयुक्ताविमौ चोभौ तुरुश्च यदुरेव च । पितृमातृसमं नास्ति अभीष्टफलदायकम्
साभिलाषेण भावेन पिता पुत्रं समाह्वयेत् । माता च पुत्रपुत्रेति तस्य पुण्यफलं शृणु
समाहूतो यथा पुत्रः प्रयाति मातरं प्रति । यो याति हर्षसंयुक्तो गंगास्नानफलं लभेत्
पादप्रक्षालनं यस्तु कुरुते च महायशाः । सर्वतीर्थफलं भुंक्ते प्रसादात्तु तयोः सुतः
अंगसंवाहनाच्चान्यदश्वमेधफलं लभेत् । भोजनाच्छादनस्नानैर्गुरुं यः पोषयेत्सुतः
पृथ्वीदानसमं पुण्यं तत्पुत्रे हि प्रजायते । सर्वतीर्थमयी गंगा तथा माता न संशयः
बहुपुण्यमयः सिंधुर्यथा लोके प्रतिष्ठितः । अस्मिल्लोँके पिता तद्वत्पुराणकवयो विदुः
सुकर्मोवाच- भ्रंशते क्रोशते यस्तु पितरं मातरं पुनः । स पुत्रो नरकं याति रौरवाख्यं न संशयः
मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत् । स पुत्रो नरकं याति वेदनां प्राप्नुयाद्ध्रुवम्
कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः । निष्कृतिर्नैव दृष्टा वै पुराणैः कविभिः कदा
एवंज्ञात्वाह्यहंविप्रपूजयामिदिनेदिने । मातरं पितरं नित्यं भक्त्या नमितकंधरः
कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम । तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल
तेन मे परमं ज्ञानं संजातं गतिदायकम् । एतयोश्च प्रसादेन संसारे परिवर्तते