तस्मादत्र महाराज स्थातव्यं हि त्वयानघ । एवमुक्तः शिवेनापि ययातिर्हरिवल्लभः
भक्त्या प्रणम्य देवेशं शंकरं नतकंधरः । एतत्सर्वं महादेव त्वयोक्तमिह सांप्रतम्
युवयोरंतरं नास्ति एका मूर्तिर्द्विधाभवत् । वैष्णवं गंतुमिच्छामि पादौ तव नमाम्यहम्
एवमस्तु महाराज गच्छ लोकं तु वैष्णवम् । समादिष्टः शिवेनापि प्रतस्थे वसुधाधिपः
पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः । नृत्यमानैस्ततस्तैस्तु पुरतस्तस्य भूपतेः
शंखशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः । जगाम निःस्वनै राजा पूज्यमानः सुचारणैः
सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः । गायंति पुरतस्तस्य गंधर्वा गीततत्पराः
ऋषिभिः स्तूयमानश्च देववृंदैः समन्वितैः । अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः
गंधर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमंगलैः । साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा
रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः । स्तूयमानो महाराजस्त्रैलोक्येन समंततः
ददृशे वैष्णवं लोकमनौपम्यमनामयम् । विमानैः कांचनै राजन्सर्वशोभासमाविलैः
हंसकुंदेंदुधवलैर्विमानैरुपशोभितैः । प्रासादैः शतभौमैश्च मेरुमंदरसंनिभैः
शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाटकान्वितैः । जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम्
तारागणैर्यथाकाशं तेजः श्रिया प्रकाशते । प्रज्वलत्तेजोज्वालाभिर्लोचनैरिव लोकते
नानारत्नैर्हरेर्लोकः प्रहसद्दशनैरिव । समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान्
ध्वज व्याजेन राजेंद्र चलिताग्रैः सुपल्लवैः । श्वसनांदोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः
हेमदंडैश्च घंटाभिः सर्वत्रसमलंकृतम् । सूर्यतेजः प्रकाशैश्च गोपुराट्टालकैस्ततः
गवाक्षैर्जालमालैश्च वातायनमनोहरैः । प्रतोलीनां प्रकाशैश्च प्राकारैर्हेमरूपकैः
तोरणैः सुपताकाभिर्नानाशब्दैः सुमंगलैः । कलशाग्रैश्चक्रबिंबै रविबिंबसमप्रभैः
सुभोगैः शतकक्षैश्च निर्जलांबुदसन्निभैः । दंडच्छत्रसमाकीर्णैः कलशैरुपशोभितैः
प्रावृट्कालांबुदाकारैर्मदिरैरुपशोभितैः । कलशैः शोभमानैस्तैर्ऋक्षैर्द्यौरिव भूतलम्
दंडजालपताकाभिर्ऋक्षजालसमप्रभैः । तादृशैः स्फाटिकाकारैः कांतिशंखेंदुसन्निभैः
हेमप्रासादसंबाधैर्नानाधातुमयैस्ततः । विमानैरर्बुदसंख्यैः शतकोटिसहस्रकैः
सर्वभोगयुतैश्चैव शोभते हरिपत्तनम् । यैः समाराधितो देवः शंखचक्रगदाधरः
ते प्रसादात्तस्य तेषु निवसंति गृहेषु च । सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः
वैष्णवाः पुण्यकर्माणो निर्धूताशेषकल्मषाः । एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमंदिरम्
नानावृक्षैः समाकीर्णं वनैश्चंदनशोभितैः । सर्वकामफलै राजन्सर्वत्र समलंकृतम्
वापीकुंडतडागैश्च सारसैरुपशोभितैः । हंसकारंडवाकीर्णैः कल्हारैरुपशोभितैः
शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः । कनकोत्पलवर्णैश्च सरोभिश्च विराजते
वैकुंठं सर्वशोभाढ्यं देवोद्यानैरलंकृतम् । दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितम्