तं धर्मं दृष्टवंतः स्म भवंतं कामरूपिणम् । भवंतं कामकर्तारमीदृशं सत्यवादिनम्
कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः । यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च
नरकेपि भवान्यत्र वयं तत्र न संशयः । किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च
त्वां विनासुमहाराज तेन नास्त्यत्र कारणम् । त्वयैव सह राजेंद्र वयं यास्याम नान्यथा
एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः । हर्षेण महताविष्टः प्रजावाक्यमुवाच ह
आगच्छंतु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः । नृपो रथं समारुह्य तया वै कामकन्यया
रथेन हंसवर्णेन चंद्रबिंबानुकारिणा । चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः
केतुना तेन पुण्येन शुभ्रेणापि महीयसा । शोभमानो यथा देवो देवराजः पुरंदरः
ऋषिभिः स्तूयमानस्तु बंदिभिश्चारणैस्तथा । प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः
प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम् । गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः । सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः
तेषां तु केतवः शुक्ला हेमदंडैरलंकृताः । शंखचक्रांकिताः सर्वे सदंडाः सपताकिनः
प्रजावृंदेषु भासंते पताका मारुतेरिताः । दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः
दिव्यचंदनदिग्धांगा दिव्यगंधानुलेपनाः । दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः
सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे । प्रजाशतसहस्राणि लक्षकोटिशतानि च
अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे । ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः
विष्णुध्यानपराः सर्वे जपदानपरायणाः । सुकर्मोवाच- एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः
पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम् । ऐंद्रं लोकं जगामाथ ययातिः पृथिवीपतिः
तेजसा तस्य पुण्येन धर्मेण तपसा तदा । ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम्
ततो देवाः सगंधर्वाः किन्नराश्चारणास्तथा । सहिता देवराजेन आगताः संमुखं तदा
तस्यैवापि नृपेंद्रस्य पूजयंतो नृपोत्तम । इंद्र उवाच- स्वागतं ते महाराज मम गेहं समाविश
अत्र भोगान्प्रभुंक्ष्व त्वं दिव्यान्कामान्मनोऽनुगान् । राजोवाच- सहस्राक्ष महाप्राज्ञ तव पादांबुजद्वयम्
नमस्करोम्यहं देव ब्रह्मलोकं व्रजाम्यहम् । देवैः संस्तूयमानश्च ब्रह्मलोकं जगाम ह
पद्मयोनिर्महातेजाः सार्धं मुनिवरैस्तदा । आतिथ्यं च चकारास्य पाद्यार्घादि सुविष्टरैः
उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा । एवमाभाषिते धात्रा जगाम शिवमंदिरम्
चक्रे आतिथ्यपूजां च उमया सह शंकरः । तस्यै वापि नृपेंद्रस्य राजानमिदमब्रवीत्
कृष्णभक्तोसि राजेंद्र ममापि सुप्रियो भवान् । ततो ययाते राजेंद्र वस त्वं मम मंदिरम्
सर्वान्भोगान्प्रभुंक्ष्व त्वं दुःखप्राप्यान्हि मानुषैः । अंतरं नास्ति राजेंद्र मम विष्णोर्न संशयः
योसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः । यो रुद्रो विद्यते राजन्स च विष्णुः सनातनः
उभयोरंतरं नास्ति तस्माच्चैव वदाम्यहम् । विष्णुभक्तस्यपुण्यस्यस्थानमेवददाम्यहम्